________________
૪૬
जैन ग्रन्थ- प्रशस्तिसंग्रह
३५. श्रेणिक चरित्र (भ० शुभचन्द्र )
आदिभाग:
श्रीवर्द्धमानमानदं नौमि नानागुणाकरं । विशुद्ध ध्यानदीप्ताचिहुतकर्मसमुच्चयं ॥१॥ बाल्येपि मुनि-संदेह-निर्नाशाय जिनेश्वरः । सन्मतित्व समापन्नः सन्मत्याख्या समाश्रितः ||२|| श्रमराहिफणामर्दान्महावीर सुनाम भाक् । बाल्ये यो बलता प्राप्तो वीराणा वीरता गतः ॥३॥ जरत्तणमिवात्यंत राज्यं प्राज्य नरेश्वर ( च नश्वरं ) । मत्वा त्यक्त्वाश्रितो दीना यो वीरो विश्ववंदितः ||४||
अन्तभाग:--
जयतु जितविपक्षी मूलसंघः मुपक्षो
हरतु तिमिरभारं भारती - गच्छवारः ( बारा :- प्रकाशः १) । नयतु सुगतमार्ग शासनं शुद्धवर्ग
जयतु च शुभचंद्रः कुंदकुंदो मुनीन्द्रः ॥ १७ ॥
तदन्वये श्रीमुनि पद्मनंदी विभाति भव्याकर- पद्मनन्दी | शोभाधिशाली वरपुष्पदंतः मुकाति-संभिन्न सुपुष्पदन्तः ||१८|| पुराण - काव्यार्थ विदावरत्व विकाशयन्मुक्तिविदावरत्वं ।
विभातु वीरः सकलायकीर्तिः कृतापक्रेनो (?) सकलाद्य कीर्तिः ॥ १६ ॥ भुवनकीर्तियतिर्जयताद्यमी भुवनप्रतिकीर्तित्रयः सदा । सुनबिम्बजिनागमकारणो भव- नवाम्बुद- वातभरः परः ||२०|| तत्पष्ादयपर्वते रविरभूद्भव्याम्बुज भासयन् सन्नेत्रास्त्रहरं तमो विघटयन्नाना करें र्भासुरः ।
भव्याना सुगतश्च विग्रहमतः श्रीज्ञानभूषः सदा चित्रं चंद्रकसंगतः शुभकरः श्रीवर्द्धमानोदयः ॥ २१ ॥