________________
चन्द्रप्रभचरित-प्रशस्ति
भट्टारक पदाधीशा मूलसंघे विदावराः । रमा- वीरेन्दु- चिद्रूप गुरवो हि गणेशिनः ॥१०॥ लक्ष्मीचद्रगुरुः स्वामी शिष्यस्तस्य सुधीयशाः । वृत्तिर्विस्तारिता तेन श्रीशुभेन्दुप्रसादतः ||११|| इति स्वामिकार्तिकेयानुप्रेक्षा- टीकाया त्रैविद्यविद्याधर- पड्भाषा कविचक्रवर्तिभट्टारक श्रीशुभचद्र-विरचिताया धर्मानुप्रेक्षाया द्वादशोऽधिकारः ||
३३. चन्द्रप्रभचरित ( भ० शुभचन्द्र )
आदिभाग :
श्रीवृष वृषभं वन्दे वृपदं वृषभाङ्कित | वृषभादिसमाश्लिष्ट - पादद्वितयपकजं ॥१॥ ( इसके आगे चन्द्रप्रभादिकी स्तुति के आठ पद्य हैं । ) ज्ञानभूषान जिनान् शेषान् सदर्थप्रतिपादकान् । मुक्तयङ्गनासमाश्लिष्टानीडेऽनन्तनुशर्मणे ॥१०॥ सप्तभगीविधि प्राप्ता गां जैनीं वैष्णवी' स्तुवे । यस्य प्रसादतः सर्व बोबुध्यन्ते जनाः समे ||११| गुरूनखिलसन्मार्ग द्योतकान् ज्ञानभूषणान् । विजये कीर्तिसंप्राप्तास्तोष्टुवीमि स्वसिद्धये ||१२|| जिनसेनादयः पूर्वसूरयः सूरसन्निभाः । मया संस्ते शिवं दद्युः परमात्मध्यानवेदिन. ॥१३॥ तदध्वनि विवक्षामो गंतु शक्तिविवर्जिताः । स्थाने तत्सूरसंद्योत्ये मार्गे गच्छति तारकाः || १४ ॥
अन्तभाग:
ET
श्रीमूलसंघेऽजनि पद्मनन्दी तत्पट्टधारी सकलादिकीर्तिः । तत्पट्टधारी भुवनादिकीर्तिजीयाच्चिरं धर्मधुरीणदक्षः ||५६ || १ व्यापनशीला ।