________________
जैनग्रन्थ-प्रशस्तिसंग्रह
अन्तभाग :
वक्तं सर्वमिह क्षमः किल भवेत्कस्योत्तमा भारती ॥१५॥ इति श्रीमुमुक्षु-सिद्धान्तचक्रवति श्रीकुन्दकुन्दाचार्यानुक्रमेण श्रीभट्टारकविश्वभूषण-विरचिते श्रीमजिनेन्द्रपुराणान्तर्गत-भगवत्पूजाफल-व्यावर्णने श्रीकरकण्डु-सहस्रारकाप्तिवर्णनो नाम चतुर्थोधिकारः सम्पूर्णः ।
करकण्डुकथा सम्पूर्णा । २७. अनन्तजिन-व्रतपूजा (भ० गुणचन्द्र) आदिभाग:
श्रीसर्वज्ञं नमस्कृत्य सिद्धं सास्त्रिधा पुनः।
अनन्तव्रतमुख्यस्व पूजा कुर्वे यथाक्रमम् ॥१॥ अन्तभाग :
इत्यनतविधेः पूजा व्यरचद्गुणचंद्रकः । श्लोकः सप्तशती पचसप्तत्यूना यतीश्वरः ॥१॥ संवत्षोडशत्रिशत्रैष्यफलके(१६३३) पक्षेऽवदाने तिथी पक्षल्या गुरुवासरे पुरुजिनेट्-श्रीशाकमार्ग पुरे। श्रीमद्धम्बडवशपद्मविता हर्षाख्यदुर्गी वणिक्
सोयं कारितवाननंत जिनसत्पूजां वरे वाग्वरे ।।२।। श्रीमूलसघेघविघातिनीह प्रद्योनमानेऽन्यमतानि नेशुः। सारस्वतो गच्छ इहैव नद्यात् श्रीमद्वलात्कारगगाभियुक्त ॥३॥ श्रीरत्नकीर्तिभगवजगना वरेण्यश्चारित्ररत्ननिवहस्य बभार भारम् । तद्दीक्षितो यतिवरो यशकीर्तिकीर्तिश्चारित्ररंजितजनोद्वहिता सुकीर्तिः॥४॥
तच्छिाप्यो गुग्गचद्रसूरिरभवच्चारित्रचेतोहरस्तेनेदं वरपूजनं जिनवरानन्तस्य युक्त्याऽरचि । येऽत्र ज्ञानविकारिणो यतिवरास्तैः शोध्यमेतद्धवं
नंद्यादारविचंद्रमक्षयतरं संघस्य मांगल्यकृत् ॥५॥ इत्याचार्यगुणचंद्रविरचिता श्रीअनन्तनाथजिनपूजा उद्यापनसहिता समाप्ता।