________________
जैनग्रन्थ-प्रशस्तिसंग्रह वंशेऽभूज्जैसवाले विमलगुणनिधि लणः साधुरत्नं माधुश्राजैनपालोभवदुदितयास्तत्सुतो दानशीलः । जैनेन्द्राराधनंषु प्रमुदितहृदयः सेवकः सद्गुरूणा लोणाख्या सत्यशीलाऽजनि विमलमतिजैनपालस्य भार्या।।५।। जाताः पट तनयास्तयोः सुकृतिनोः श्रीहंसराजोभवत् तेषामाद्यतमस्ततस्तदनुजः सेराजनामाऽजनि । रैराजो भवराजकः ममजनि प्रख्यातकीतिर्महासाधुश्रीकुशराजकस्तदनु च श्रीक्षमराजो लघुः ॥६॥ जातः श्रीकुशराज एव सकलदमापालचूडामणः श्रीमत्तोमर-वीरमस्य विदितो विश्वासपात्र महान । मत्री मंत्रविचक्षणः क्षणमयः क्षीणारिपक्षः क्षणात् क्षोणीमीक्षणरक्षणक्षम मतिजैनेन्द्रपृजारतः ॥७॥ स्वगस्पद्धिसमृद्धिकोतिविमलश्चैत्यालयः कारिता लोकाना हृदयगमा बहुधनेश्चन्द्रप्रभस्य प्रभाः । यनैतत्समकालमेवरुचिर भव्यं च काव्यं तथा साधुश्रीकुशराजकन मुधिया कीर्ते श्चिरस्थापक ।।८।। तिम्रस्तस्यैव भार्या गुणचरितयुपस्तासु रल्होभिधाना पत्नी धन्या चरित्रा व्रतनियमयुता शीलशौचेन युक्ता । दात्री देवाचनादृया गृहकृतिकुशला तत्सुतः कामरूपा दाता कल्याणसिहो जिनगुरुचरणाराधने तत्परोऽमृत ।।६।। लक्षणश्री: द्वितीयाभूत्सुशीला च पतिव्रता कौशीरा च तृतीयेयमभद्गुणवती सती ॥१०॥ शातिर्देशस्य भूयात्तदनु नरपतेः सुप्रजाना जनाना वक्तृणा वाचकाना तथैव (१) ॥११॥ यावत्कर्मस्य पृष्ठे भुजगपतिरयं तत्र तिष्ठेद्गरिष्ठे यावत्तत्रापि चचद्विकटफारणफणामडले क्षोणिरेषा ।