________________
हि, श्रोत्रादीन्द्रियरुपलब्धस्येहितपदार्थस्य निश्चयोऽवायः, मतिज्ञानञ्चापायस्वरूपं सत् विद्यमानं विद्यमानसदृशं वा पदार्थमेव गृह णाति, किन्तु नैतानि केवलज्ञाने समुपलभ्यन्तेऽतो न तेन केवलेन सह वर्तन्ते। श्र तज्ञानस्य च मतिपूर्वकत्वात्, अवधिमनःपर्ययोश्च केवलं रूपिद्रव्यमात्रविषयत्वाच्च न तत्र केवलिनि भवितव्यमिति । अथ च यानि मतिज्ञानादीनि केवलव्यतिरिक्तानि चत्वारि ज्ञानानि, तेषामुपयोगः खलु जीवस्य क्रमेणैव जायते, न तु सहवर्तित्वेन । न दृशं केवलज्ञानं भवति, अर्थात् येन केवलिना परिपूर्णज्ञानं दर्शनञ्च सम्प्राप्तम्, स समस्तमपि पदार्थ युगपदेव विषयीकरोति । तस्यासहायत्वादनयोः केवलज्ञानदर्शनयोर्युगपदुपयोगो भवति । अथ चैषु पञ्चविधेषु ज्ञानेषु चत्वारि खलु क्षयोपशमादुत्पद्यमानानि, केवलज्ञानञ्च सर्वथा कर्मक्षयादुत्पन्नमतो न केवलिनि चतुर्णामेषा सहभावो भवत्यतस्तत्र तेषामभाव एवावगन्तव्य इति ।
सम्यक्चारित्रम् सम्यक्चारित्रलक्षणम् संसारस्य (ससरणस्य) कारणभूताना रागद्वेषादीना निवृत्त्य कृतसंकल्पस्य विवेकिन शरीरवाङ्मनसा बाह याभ्यन्तरक्रियाभ्या विरागानन्तरं स्वरूपस्थितेरधिगम सम्यक्चारित्रम् । अर्थात् द्रव्य-क्षेत्र-काल-भव-भावपरिवर्तनरूपस्य पञ्चविधससारस्य कारणभूतानामष्टविधकर्मणामात्यन्तिकी निवृत्ति प्रति कृतसकल्पस्य ज्ञानयुक्तस्य जीवस्य बाह यक्रियाभ्यो मानसिकक्रियाभ्यश्च विरमणं यदैव जायते, तदेव तस्य स्वरूपे स्थितिरपि सञ्जायते । सा स्वरूपस्थितिरेव 'सम्यक्चारित्रमि'त्युच्यते । एवमहिसा-अस्तेय-अचौर्य-ब्रह्मचर्यअपरिग्रहादीना सम्यक्परिपालन सम्यक्चारित्रमिति," अथवा-संसरणकारणभूताना कर्मणां बन्धयोग्याः या. क्रियास्तासा निरोधानन्तरं शुद्धात्मस्वरूपावाप्तये या सम्यग्ज्ञानपूर्विका प्रवृत्तिर्जायते, तत्सम्यक्चारित्रमिति कथ्यते। सम्यक्चारित्रभेदाः तदेतत् सम्यक्चारित्र खलु पञ्चविधम्", तद्यथा
(१) सामयिकम् (Equanimity) (२) छेदोपस्थापनम् (Recovery of Equanimity after
down-fall)
२३०
जैनदर्शन मात्म-द्रव्यविवेचनम्