________________
केवलज्ञानस्य विषयभूताः सन्ति । नास्मादुत्कृष्टमन्यत् ज्ञानम्, नाप्येतादृशः कश्चन पदार्थः पर्यायो वास्ति योऽस्य विषयाबहिस्तिष्ठेत् । अत्र ज्ञानावरणस्य सर्वथा क्षयात्मकत्वात् नेतेन सहान्यत् ज्ञानं कथमपि तिष्ठति, एकाक्येवेदमुपजायते, अत एवेदं केवलमित्युच्यते। तदिदं केवलज्ञानं सकलद्रव्यभावानां परिच्छेदकत्वात् परिपूर्णम्, अथ च यथैक जीवपदार्थ साकल्येन गृह्णाति, तथैवान्येषामपि समस्तपदार्थानां ज्ञायकत्वात् समग्रम्, क्षयोपशमनिमित्तेनान्येन केनाप्यसादृश्यत्वादसाधारणम्, इन्द्रिय-मनसआलोकादिसहायकालम्बनानपेक्षत्वात् निरपेक्षम्, ज्ञानावरणदर्शनावरणादिनिमित्तानां मलदोषाद्यशुद्धीनां सर्वथाऽभावाद्विशुद्धम्, समग्राणामपि तत्त्वानामवबोधकत्वात् सर्वभावज्ञापकम्, लोकालोकयोः सर्वेषामप्यशाना परिच्छेदात्मकत्वाल्लोकालोकविषयम्, अगुरुलघुगुणनिमित्तानन्तपर्यायपरिणमनात्मकत्वादनन्तपर्यायमपीदमुच्यते । अथवा ज्ञयपर्यायानन्तात्मकत्वात्, अनन्ताविभागप्रतिच्छेदात्मकत्वाद्वास्यानन्तपर्यायत्वमस्तीति । अस्यायमाशयो यदनन्तशक्ति-योग्यतानां धारकत्वादिदं सर्वथाऽप्रतिम ज्ञानमिति । ज्ञानानामेककालभावित्वम् एषु मतिश्रुतादिज्ञानेषु कस्यचिज्जीवस्यकम्, कस्यचिद् द्वे, कस्यचित् त्रीणि, चत्वारि वा ज्ञानानि एककालावच्छेदेन भवितुं शक्नुवन्ति । तदेवोक्तं तत्त्वार्थसूत्रे वाचकमुख्य.
'एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुभ्यः। अत्रेदमवधार्यम्, यद्यस्य श्रुतज्ञानं विद्यते, तस्य मतिज्ञानेनापि अवश्यं भाव्यम्, तस्य तत्पूर्वकत्वात् । परं यस्य केवलं मतिज्ञानमेवास्ति न तस्य श्र तज्ञानमवश्यम्भावि । अथ च केवलज्ञाने जाते सति मत्यादीन्यपि तेन साकं विद्यमानानि सन्ति न वेति विषये विदुषां यन्मतवैभिन्न्यं, तदित्थम् अत्र केचनेत्थं प्रतिपादयन्ति, यत् केवलज्ञाने सति न मतिज्ञानादीनामभावो जायतेपितु तानि केवलज्ञानेनाभिभूतानि एव भवन्त्यतस्तानि केवलज्ञानावस्थायां न कार्यकरणक्षमानि भवन्ति । यथा खलु केवलज्ञाने सत्यपि सर्वाणीन्द्रियाणि तदवस्थितान्येव तिष्ठन्ति न किञ्चिदपि कार्य कर्तुं शक्नुवन्त्येवमेव मतिज्ञानादीन्यपि । केचनेत्यं प्रतिपादयन्ति—यन्नेमानि मतिज्ञानादीनि केवलिनस्तिष्ठन्ति, यतो सम्यग्ज्ञानम्
२२९