________________
१६
देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
·
- ततश्च संज्ञा विद्यते येषां ते संज्ञिनः, परं सर्वत्राप्यागमे ये दीर्घकालिक्या संज्ञया संशिनस्ते संज्ञिन उच्यन्ते, ततः संशिनां श्रुतं संज्ञिश्रुतम् समनस्कानां मनः सहितैरिन्द्रियैर्जनितं श्रुतं संज्ञिश्रुतमिति भावः ३ । मनोरहितेन्द्रियजं श्रुतमसंज्ञिश्रुतम् ४ । तथा सम्यग्दृष्टेरहेत्मणीतं मिथ्यादृष्टिप्रणीतं वा यथाखरूपमवगमात् सम्यक् श्रुतम् ५ । मिथ्यादृष्टेः पुनरई - त्प्रणीतमितरद्वा मिथ्याश्रुतं यथास्वरूपमनवगमात् ६ ।
आह - मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणकर्मक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिक पृथुतुनोदराद्याकारं घटादिकं च संविदाते, तत् कथं मिथ्यादृष्टेरज्ञाने ? उच्यते - सदसद्विवेकपरिज्ञानाभावात् । तथाहि--- मिथ्यादृष्टिः सर्वमप्येकान्तपुरःसरं प्रतिपद्यते, न भगवदुतस्याद्वादनीत्या; ततो घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः; घटः सन्नेवेति ब्रुवाण: पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते ; ततः सन्तमसन्तं प्रतिपद्यतेऽसन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते । इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात् । तथाहि —मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी । तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत् । तथाहि उन्मत्तकविकल्या वस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्तन्ते; यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्तमानत्वात् परमार्थतोऽपारमार्थिकाः; तथा मिथ्यादृष्टीनां मतिश्रुते यथावद्वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि ते कचिद्रसोऽयं स्पर्शोऽयमित्यादाववधारणाध्यवसायाभावे संवादिनी तथापि न ते स्वाद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथचित्, अतस्ते अज्ञाने । तथा ज्ञानफलाभावात्, ज्ञानस्य हि फलं यस्य हानिरुपादेयस्य चोपादानम्, मच संसारात् परं किश्चन हेयमस्ति, न च मोक्षात् परं किञ्चिदुपादेयम्, ततो भवमोक्षावेकामतेम हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च तत्त्वतो ज्ञानस्य फलम् । तथा चाह भगवानुमाखातिवाचकः
ज्ञानस्य फलं विरतिः, ( प्रशम० पद्य० ७२ ) इति ।
सा च मिथ्यादृष्टेर्नास्तीति ज्ञानफलाभावादज्ञाने मिध्यादृष्टेर्मतिश्रुते । यदाह भाष्यसुधाम्भोनिधिः
सदसदविसेसणाओ, भवहेउ जहिच्छिओवलभाओ ।
नाणफलाभावाओ, मिच्छहिट्ठिस्स अन्नाणं ॥ (विशे० गा० ११५ ) इति ।
तथा----
"साईयं ७ सपज्जबसिय ८ अणाईयं ९ अपज्जवसियं १० इश्श्रेयं दुवालसंगं वुच्छित्तिनया साईयं सवज्जबसियं, अवच्छित्तिनयट्टयाए अणाईयं अपज्जवसिय, तं समासओ चउ
१ सदसदविशेषणाद्भवद्धेतुतो यदृच्छोपलम्भात् । ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानम् ॥ २ खादिकं ७ सपर्यसितम् ८ अनादिकम् ९ अपर्यवसितम् १० इत्येतत् द्वादशानं व्युच्छित्तिनयार्थतया सादिकं सपर्यवसितम् अव्युच्छिनियार्थतयाऽनादिकमपर्यय सितम् तत् समास्रत चतुर्विधं प्रज्ञप्तम्, तद्यथा द्रव्यतः क्षेत्रतः कालतो