________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । याऽनुभूयते यत् तद् वेद्यम् , “य एचातः" (सि० ५-१-२८) इति यप्रत्यये वेदनीयम् । यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिशब्दवद वेद्यशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेद्यमित्युच्यते न शेषम् । तथा मोहयति-जानानमपि प्राणिनं सदसद्विवेकविकलं करोतीति मोहः, लिहादित्वादच्प्रत्ययः, मोहनीयमित्यर्थः । तथा एति-गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति-आगच्छति प्रतिबन्धकतां खकृतकर्मावाप्तनरकादि१र्गतेर्निर्गन्तुमनसोऽपि जन्तोरित्यायुः, उभयत्रापि औणादिको गुस्प्रत्ययः, यद्वा आयाति-भवाद् भवान्तरं सङ्कामतां जन्तूनां निश्चयेनोदयमागच्छति "पृषोदरादयः” (सि० ३-२-१५५) इत्यायुःशब्दसिद्धिः । यद्यपि च सर्व कर्म उदयमायाति तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत् किञ्चित्तस्मिन्नेव भवे उदयमायाति, किञ्चित्तु प्रदेशोदयभुक्तं जन्मान्तरेऽपि खवियाकत उदयं नायात्येव इत्युभयथाऽपि व्यभिचारः आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनात् , जन्मान्तरसङ्क्रान्तौ तु खविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात् तस्य चायुष्येव सद्भावात् तस्यैवैतन्नाम । अथवा आयान्त्युपभोगाय तमिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकर्माणीत्यायुः । तथा नामयति-गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा 'गुङ् शब्दे' गूयते-शब्द्यत उच्चावचैः शब्दैरात्मा यस्मात् तद् गोत्रम् । ततो ज्ञानदर्शनावरणं च वेद्य च मोहश्चायुश्च नाम च गोत्रं च ज्ञानदर्शनावरणवेद्यमोहायुर्नामगोत्राणि । तथा विशेषेण हन्यन्ते-दानादिलब्धयो विनाश्यन्तेऽनेनेति "स्थास्नायुधिन्याधिहनिभ्यः कः" इति कप्रत्यये 'विघ्नम्' अन्तरायम् । 'च:' समुच्चये । “पणनवदुअट्ठवीस'इत्यादि । अत्र द्वन्द्वगर्भो बहुव्रीहिसमासः । भावार्थः पुनर. यम्-पञ्चविधं ज्ञानावरणम् , नवविधं दर्शनावरणम् , द्विविधं वेद्यम् , अष्टाविंशतिविधो मोहः, चतुर्विधमायुः, त्रिशतविधं नाम, त्रिभिरधिकं शतं त्रिशतं-व्युत्तरशतविधमित्यर्थः, द्विविधं गोत्रम् , पञ्चविधं विनमिति । __ अत्राह नन्वित्थं ज्ञानावरणाडुपन्यासे किश्चिदस्ति प्रयोजनम् ? उत यथाकथञ्चिदेव प्रवृत्तः ? इति, अस्तीति ब्रूमः । किं तद् ? इति चेद् उच्यते---इह ज्ञानं दर्शनं च जीवस्य खतत्त्वभूतम् , तदभावे जीवत्वस्यैवायोगात् , चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदर्शनाभावे भवेत् ?; ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानम् , तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । अपि च---सर्वा अपि लब्धयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्य, “सबाओ लद्धीओ सागारोवओगोवउत्तस्स, नो अणागारोवओगोवउतस्स" इति वचनप्रामाण्यात् । अन्यच्च यस्मिन् समये सकलकर्मविनिर्मुक्तो जीवः सञ्जायते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव, न दर्शनोपयोगोपयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् , ततो ज्ञानं प्रधानम् , तदावारकं च ज्ञानावरणं कर्म, ततस्तत् प्रथममुक्तम् । तदनन्तरं च दर्शनावरणम् , ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात् । एते च ज्ञानदर्शनावरणे खवि
१ ज्ञानिनमपि ग० ॥ २ दुर्गतेर्निष्क्रमितुम ख० ॥ ३ सर्वा लब्धयः साकारोपयोगोपयुक्तस्य नोऽनाकारोपयोगोपयुक्तस्य ।