________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा ठिईबंधु दलस्स ठिई, पएसबंधो पएसगहणं जं ।
ताण रसो अणुभागो, तस्समुदाओ पगइबंधो ।। (पञ्चसं० गा० ४३२) अन्यत्राप्युक्तम्-~
प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् ।
अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः ।। इदं च प्रकृतिस्थितिरसप्रदेशानां खरूपं 'मोदकस्य' कणिकादिमयलाकस्य 'दृष्टान्तात्' दृष्टान्तेन भावनीयम् । दृष्टान्तादित्यत्र तृतीयार्थे पञ्चमी । यदाह पाणिनिःस्वप्राकृतलक्षणे"व्यत्ययोऽप्यासाम्" इति । यथा वातविनाशिद्रव्यनिष्पन्नो मोदकः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिवृत्तः पित्तम् , कफापहारिद्रव्यसमुद्भूतः कफमित्येवंस्वभावा प्रकृतिः । स्थितिस्तु तस्यैव कस्यचिद्दिनमेकम् , अपरस्य तु दिनद्वयम् , एवं यावत् कस्यचिन्मासादिकमपि कालं भवति ततः परं विनाशादिति । रसः पुनः स्निग्धमधुरादिरूपस्तस्यैव कस्यचिदेकगुणः, अपरस्य द्विगुणः, अन्यस्य त्रिगुण इत्यादिकः । प्रदेशाश्च कणिक्कादिरूपास्तस्यैव कस्यचिदेकप्रमृतिप्रमाणाः, अन्यस्य तु प्रसूतिद्वयप्रमाणाः, यावदपरस्य सेतिकादिप्रमाणाः। एवं कर्मणोऽपि कस्यचिद् ज्ञानाच्छादनखभावा प्रकृतिः, अपरस्य दर्शनावरणरूपा, अन्यस्याऽऽहादादिप्रदानलक्षणा, कस्यचित् सम्यग्दर्शनादिविधातजननखभावेत्यादि । स्थितिश्च तस्यैव कस्यचित् त्रिंशत्सागरोपमकोटीकोटीरूपा, अपरस्य तु सप्ततिसागरोपमकोटाकोटिलक्षणेत्यादि । रसस्त्वनुभागशब्दवाच्यस्तस्यैवैकस्थानद्विस्थानत्रिस्थानादिरूपः । प्रदेशा अल्पबहुबहुतरबहुतमादिरूपा इति । पुनः किंविशिष्टं तत् कर्म भवति ? इत्याह ---"मूलपगइऽट्ट उत्तरपगईअडवन्नसयभेयं" ति मूलप्रकृतयः सामान्यरूपाः ‘अष्टौ' अष्टसङ्ख्या यत्र तन्मूलप्रकृत्यष्ट, उत्तरप्रकृतीनां-मूलप्रकृतिविशेषरूपाणामष्टपञ्चाशच्छतभेदा यस्य तदुत्तरप्रकृत्यष्टपञ्चाशच्छतभेदमिति ॥ २॥ ___ अधुना मूलप्रकृतिभेदतस्तस्यैवाष्टविधत्वमुत्तरप्रकृतिभेदतोऽष्टपञ्चाशच्छतभेदत्वं च प्रदर्शयन् खनामग्रामष्टौ मूलभेदान् एकैकस्य च भेदस्य यस्य यावन्त उत्तरभेदास्तांश्च वक्तुमाह--
इह नाणदसणावरणवेयमोहाऽऽउनामगोयाणि।
विग्धं च पणनवदुअट्टवीसचउतिसयदुपणविहं ॥३॥ 'इह' प्रवचने कर्मोच्यते इति शेषः । “नाणदंसणावरण"त्ति ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानम् , ज्ञातिर्वा ज्ञानम् , सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । तथा दृश्यतेऽनेनेति दर्शनम् , दृष्टिा दर्शनम् , सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः । आत्रियते-आच्छाद्यतेऽनेनेत्यावरणम् , यद्वा आवृणोति-आच्छादयति "रम्यादिभ्यः कर्तरि" (सि० ५-३-१२६) अनटि प्रत्यये आवरणं-मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः । ततो ज्ञानं च दर्शनं च ज्ञानदर्शने तयोरावरणं ज्ञानदर्शनावरणं ज्ञानावरणं दर्शनावरणं चेत्यर्थः । तथा वेद्यते-सुखदुःखरूपत- १ स्थितिबन्धो दलस्य स्थितिः, प्रदेशबन्धः प्रदेशग्रहणं यत् । तेषां ( कर्मपुद्गलानां ) रसोऽनुभागस्तत्समुदायः प्रकृतिबन्धः ॥ २०बंध ग०॥ ३०ऽनेनेति दृष्टिक०ख० ग०१०॥