________________
२
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
म्बद्धं 'येन' कारणेन 'ततः' तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । केन क्रियते ! इत्याह-- 'जीवेन' जन्तुना, तत्र जीवति - इन्द्रियपञ्चकमनोवाक्कायबलत्रयोच्छ्वासनिःश्वासाऽऽयुर्लक्षणान् दश प्राणान् यथायोगं धारयतीति जीवः । क इत्थम्भूतः ? इति चेद् उच्यतेयो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिर्वर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनज्ञानचारित्रासप - त्वरत्नत्रयाभ्यासप्रकर्षवशाच्च निःशेषकर्माशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मेत्यादिपर्यायः । उक्तं च-
यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च ।
संसत परिनिर्वाता, सात्मा नान्यलक्षणः ॥ इति ।
कैः कृत्वा जीवेन क्रियते ? इत्याह – 'हेतुभिः ' मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः,
"पडिणीयत्तण निन्हव, पओस उवघाय अंतराएण । अञ्च्चासायणयाए, आवरणदुगं जिओ जयइ || "
इत्यादिभिर्विशेषप्रकारैरिहैव ( गा० ५३ ) वक्ष्यमाणैः । तदयमत्र तात्पर्यार्थः क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । कथमेतत्सिद्धिः ? इति चेद् उच्यते-- इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं क्ष्मापतिद्रमकमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यम्, मा प्रापत् सदा भावाभावदोषप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् " । सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेव चास्माकं कर्मेति मतमिति तत्सिद्धिः ।
यदवोचाम श्री दिनकृत्यटीकायां जीवस्थापनाधिकार एनमेवार्थम् -- क्ष्माभृद्रङ्ककयोर्मनीषिजडयो: सद्रूपनीरूपयोः, श्रीमद्दुर्गतयोर्बलाबलवतोर्नीरोगरोगार्त्तयोः । सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं,
अन्यत्राप्युक्तम्
यत् तत् कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥
आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं चित्रमदृष्टं कर्मसंज्ञितम् ॥
पौराणिका अपि कर्मसिद्धिं प्रतिपद्यन्ते । तथा च ते
प्राहु:
यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ यतत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवज्येष्ठ !, दैवमित्यभिधीयते ॥
१ पर्यायाः क० ख० घ० । २ कार है ग० । ३ चेद्-इहा° स्व० ग०