________________
॥ अर्हम् ॥ ॥ श्रीमद्विजयवल्लभसूरिभ्यो नमः ॥ पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः कर्मविपाकनामा प्रथमः कर्मग्रन्थः।
॥ नमः श्रीप्रवचनाय ॥ दिनेशवद्ध्यानवरप्रतापैरनन्तकालप्रचितं समन्तात् । योऽशोषयत् कर्मविपाकपकं, देवो मुदे वोऽस्तु स वर्धमानः ॥ १ ॥ ज्ञानादिगुणगुरूणां, धर्मगुरूणां प्रणम्य पदकमलम् ।
कर्मविपाके विवृति, स्मृतिबीजविवृद्धये विदधे ॥ २॥ तत्राऽऽदावेवाभीष्टदेवतानुत्यादिप्रतिपादिकामिमां गाथामाह----
सिरिवीरजिणं वंदिय, कम्मविवागं समासओ वुच्छं ।
कीरइ जिएण हेऊहिं जेण तो भण्णए कम्मं ॥१॥ श्रिया सकलत्रिभुवनजनमनश्चमत्कारिमनोहारिपरमार्हन्त्यमहामहिमाविस्तारि
"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च ।।
भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥" इतिस्पष्टाष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या वा समन्वितो वीरः श्रीवीरः, स चासौ रागद्वेषमोहप्रभृतिवैरिवारपराजयाद् जिनश्च श्रीवीरजिनस्तं श्रीवीरजिनं-श्रीमद्वर्धमानखामिनं 'वन्दित्वा' विशुद्धमानसप्रणिधानसमन्वितेन वाग्योगेन स्तुत्वा, काययोगेन च प्रणम्य, "वदुङ स्तुत्यभिवादनयोः” इति वचनात् । एतेन मङ्गलार्थमभीष्टदेवतायाः स्तुतिरुक्ता । क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह---'कर्मविपाकं वक्ष्ये' तत्र कर्मणां-ज्ञानावरणादीनां विपाकः--अनुभवः कर्मविपाकस्तं कर्मविपाकं 'वक्ष्ये' अभिधास्थे । अनेनाभिधेयमाह । कथम् ? इत्याह---'समासतः सङ्केपेण, न विस्तरेण, दुष्षमानुभावापचीयमानमेघाssयुर्बलादिगुणानामैदंयुगीनजनानां विस्तराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थ चैष शास्त्रारम्भप्रयासः । एतेन ससिप्तरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्टे । सम्बन्धस्त्वर्थापत्तिगम्यः, स चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा खयमभ्यूह्य इति । अथ 'कर्मविपाकं वक्ष्ये' इत्युक्तं तत्र कर्मशब्दं व्युत्पादयन्नाह ---'क्रियते' विधीयतेऽञ्जनचूर्णपूर्णसमुद्गकव निरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वययःपिण्डवद्वा कर्मवर्गणाद्रव्यमात्मस