SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा विषयं वीर्य तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असोया मन्तव्याः । "दुण्ह य समाण समय" त्ति 'द्वयोश्च समयोः' उत्सर्पिण्यवसर्पिणीकालखरूपयोः समया असङ्ख्येयस्वरूपाः । “पत्तेयनिगोयए" ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुक्नस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्ख्यया भवन्ति । निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासङ्ग्याताः । एवमेते प्रत्येकमसलयेयस्वरूपा दश क्षेपास्तान् क्षिपस्व ॥ ८२ ।। अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेयस्मिन् विहिते यद् भवति तदाह--- पुण तम्मि ति वग्गियए, परित्तणंत लहु तस्स रासीण । अब्भासे लह जुत्ताणं अव्भवजियमाणं ॥ ८॥ पुनरपि "तम्मि" ति तस्मिन्' अनन्तरोदिते प्रक्षिप्तक्षेपदशके विवागते श्रीन वारान् वांगते सति परीत्तानन्तं 'लघु' जघन्यं भवति । इदमुक्तं भवति--जघन्यासाच्ययासययकस्वरूपे वारत्रयं वर्गिते राशौ दशैते क्षेपाः क्षिप्यन्ते. तत इत्थं पिण्डितो यो गांग: सम्पद्यते स पुनरपि वारत्रयं वय॑ते ततो जघन्यं परीत्तानन्तकं भवतीति । इदानी जघन्ययुक्तानन्तकनिन्छपणायाह.----- "तस्स रासीण" इत्यादि, 'तम्य' जघन्यपरीत्तानन्तकस्य सम्बन्धिनां गशीनामन्योन्यमभ्यासे सति 'लघु' जघन्यं युक्तानन्तकमभन्यजीवमानं भवति । इयमन्त्र भावना .उधन्यपरीत्तानन्तक ये राशयः सर्षपरूपाम्ते पृथक् पृथग व्यवस्थाप्यन्ते. तेषां तथा व्यवस्थापिकानां जघन्यपरीत्तानन्तकमानानां राशीनामन्योन्याभ्यासे मति युक्तानन्तं जयन्यं भवति, तथा धन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्त अभवसिद्धिका अपि जीवा केवलिन तावन्त एव दृष्टा इति ॥ ८३ ॥ जघन्यानन्तानन्तकप्ररूपणायाह-- तव्वग्गे पुण जायड, णताणंत लह तं च तिकरवृत्तो। वग्गसु तह विन तं होड़ गंतववे ग्विवमु छ इमे ॥ ८४ ॥ तस्य-जघन्ययुक्तानन्तकराशेवर्ग-सकृदभ्यासे तद्वर्ग कृते सति 'पुनः' भूयोऽपि 'जायते' सम्पद्यते अनन्तानन्तं 'लघु' जघन्यम् , जघन्यानन्तानन्तकं भवतीत्यर्थः । उत्कृष्टानन्तानन्तकारूपणायाह---"तं च तिक्वुत्तो" इत्यादि । तच्च तत् पुनर्जघन्यमनन्तानन्तं त्रिकृत्वः' त्रीन् वारान् ‘वर्गयस्त्र' तावतैव राशिना गुणय । अयमत्रार्थः---जघन्यानन्नानन्तकराशेस्तावतैव राशिना गुणनम्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनवर्गः, तस्यापि वर्गितराशेर्भूयोऽपि वर्ग इति । तथापि' एवमपि वारत्रयं वर्गे कृतेऽपि तद्' उत्कृष्टमनन्तानन्तकं 'न भवति' न जायते । ततः किं कार्यम् ! इत्याह----अनन्तक्षेपान् ‘इमान्' वक्ष्यमाणस्वरूपान् ‘पट्' षट्सक्यान् ‘क्षिपस्व' निघेहीति ।। ८४ ॥ तानेव षडनन्तक्षेपानाह-~ सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव । सध्यमलोगनहं पुण, ति वग्गिउं केवलदुगम्मि ॥ ८५ ॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy