________________
રક્ત
देवेन्द्रसूरिविरचितवोपज्ञटीकोपेतः
[ गाय
शीर्षप्रहेलिका चतुरशीतिलक्षैर्गुणितं शीर्षप्रहेलिका भवति ४६ । अस्याः स्वरूपमङ्कतोऽपि दर्श्यते - ७५८२६३२५३०७३०१०२४१९५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे चत्वारिंशं शून्यशतम् । तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्नवत्यधिकशतसङ्गमान्यङ्कस्थानानि भवन्ति । एतस्माच्च परतोऽपि सपेयः कालोऽस्ति, स स्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपोपमयाऽत्रैव वक्ष्यते । पल्योपमसागरोपमपुद्गलपरावर्तादिकालखरूपं पुनः स्वोपज्ञशतकटीकायां सविस्तरमभिहितं तत एवावधारणीयम् ।
ततो धर्मास्तिकाय १ अधर्मास्तिकाय २ आकाशास्तिकाय ३ पुद्गलास्तिकाय ४ काल ५द्रव्याणि 'पारिणामिके' तेन तेन रूपेण परिणमनस्वभावे पर्यायविशेषे वर्तन्त इति शेषः । तथाहि — धर्माधर्माकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युपष्टम्भाaaraदा परिणामेन परिणतत्वादनादिपारिणामिकभाववर्तित्वम् । कालरूपसमयस्याप्यपरापरस-मयोत्पत्तितयाऽऽवलिकादिपरिणामपरिणतत्वादनादिपारिणामिकभाववर्तित्वमेव । द्व्यणुकादिस्कन्धानां सादिकालात् तेन तेन स्वभावेन परिणामात् सादिपारिणामिकत्वं मेर्वादिस्कन्धानां त्वनादिकालात् तेन तेन रूपेण परिणामादनादिपारिणामिकभाववर्तित्वं चेति । आह किं सर्वेऽप्यजीवाः पारिणामिक एव भावे वर्तन्ते ? आहोश्चित् केचिदन्यस्मिन्नपि ? इत्याह - "खंधा उदए ‘वि” त्ति 'स्कन्धाः' अनन्तपरमाण्वात्मका न तु केवलाणवः, तेषां जीवेनाऽग्रहणात्, 'औदयिकेऽपि' औदयिकभावेऽपि न केवलं पारिणामिक इत्यपिशब्दार्थः । तथाहि-- शरीरादिनामोदयजनित औदारिकादिशरीरतया औदारिकादीनां स्कन्धानामेवोदय इति भावः । उदय - एवौदयिक इति व्युत्पत्तिपक्षे तु कर्मस्कन्धलक्षणेष्वजीवेष्वौदयिकभावो भवतीति भावः । तथाहि — क्रोधादये जीवस्य कर्मस्कन्धानामुदयस्तेषामेवौदयिकत्वमिति ।
वेवं कर्मस्कन्धाश्रिता औपशमिकादयोऽपि भावा अजीवानां सम्भवन्त्यतस्तेषामपि भणनं प्राप्नोति, सत्यम्, तेषामविवक्षितत्वात्, अत एव कैश्चिदजीवानां पारिणामिक एव भावोऽभ्युपगम्यत इति ॥ ६९ ॥ व्याख्याता अजीवाश्रिता अपि भावाः । सम्प्रति जीवगुणभूतेषु गुणस्थानकेषु भावान् निरुरूपयिषुराह-
सम्माइच तिग चउ, भावा चउ पणुवसामगुवसंते । च वीणापुव्वि तिन्नि, सेसगुणद्वाणगेगजिए ॥ ७० ॥
" सम्माइ” त्ति सम्यग्दृष्ट्यादिषु अविरतसम्यग्दृष्टिप्रभृतिषु चतुर्षु चतुः सशषेष्वविरतसम्यण्डष्टिदेशविरतप्रमत्ताप्रमत्तलक्षणेषु गुणस्थानकेष्विति वक्ष्यमाणपदस्यात्रापि सम्बन्धः कार्यः, "तिग च भाव" चि त्रयश्चत्वारो वा भावाः प्राप्यन्त इति भावः । तत्र क्षायोपशमिकसम्यग्दृष्टे तुर्ष्वपि गुणस्थानकेवि त्रयोऽपि भावा लभ्यन्ते । तद्यथा— यथासम्भवमौदयिकी गतिः, क्षायोपशमिकमिन्द्रियसम्यक्त्वादि, पारिणामिकं जीवत्वमिति । क्षायिकसम्यग्दृष्टेरोपशमिकसम्यम्हटेश्व चत्वारो भावा लभ्यन्ते, त्रयस्तावत् पूर्वोक्ता एव; चतुर्थस्तु क्षायिकसम्यग्दृष्टेः क्षायिकसम्यक्त्वलक्षणः, औपशमिकसम्यग्दृष्टेः पुनरौपशमिकसम्यक्त्वस्वभाव इति । "चउ पणुबसामगुवसंते” चि चत्वारः पश्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति । किमुक्तं भवति ! - अनिकुचिनादर