________________
२७-६९]
षडशीतिनामा चतुर्थः कर्ममन्थः ।
१९३
यमुना पूर्वदर्शितप्रकारेण गत्यादिषु संयोगबटुक चिन्तनलक्षणेन परस्परविरोधाभावेन सम्मविनः पञ्चदश सान्निपातिकमेदाः षष्ठभावविकल्पाः प्ररूपिता इति शेषः । "वीस असंगविणो" ति विंशतिसमाः संयोगा असम्भविनः, प्ररूपणामात्रभावित्वेन न जीवेषु तेषां सम्भवोऽस्तीति ।
ननु षडिशतिमेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्व मीलने पञ्चत्रिंशत्या मेदाः प्राप्नुवन्तीति कथं न विरोधः ?, अत्रोच्यते ननु विस्मरणशीलो देवानांप्रियः, यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला व्यादिसंयोगास्तु षडेव । तथाहि —एको द्विक्संयोगः, द्वौ द्वौ त्रिकचतुष्कसंयोगो, एकः पञ्चकसंयोग इति षण्णां विंशत्या मीलने षड्विंशतिसङ्ख्यैवोपजायत इति नात्र कश्चन विरोध इति ॥ ६८ ॥
अभिहिताः सप्रभेदा जीवानामौपशमिकादयो भावाः । साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाह - मोहेव समो मीसो, वउघाहस अट्ठकम्मसु य सेसा । धम्मा पारिणामियभावे खंधा उदइए वि ॥ ६९ ॥
'मोहे एव' षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्, यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः 'शमः' उपशमोऽनुदयावस्था भस्मच्छन्नाभेरिव न तु समस्तानां कर्मणाम् । “मीसो चउधाइसु" ति 'मिश्रः क्षयोपशमः, तत्र क्षयः - उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमः - अनुदयावस्था दरविध्यातवह्निवत् क्षयोपशमः, 'चतुर्षु' चतुः समयेषु 'घातिषु' ज्ञानादिगुणघातकेषु कर्मखित्युत्तरोक्तमत्रापि सम्बन्धनीयम्, ततो ज्ञानावरणदर्शनावरणमोहनीयान्तरायलक्षणानां षातिकर्मणामेव क्षयोपशमो भवति न त्वघातिकर्मणामिति । 'अष्टकर्मसु ' ज्ञानावरणाद्यन्तरायावसानेषु 'चः' पुनरर्थे अष्टकर्मसु पुनः 'शेषा:' औदयिकक्षायिकपारिणामिकभावा भवन्ति । तत्रोदयः - विपाकानुभवनम्, क्षय:- अत्यन्ताभावः, परिणामः - तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्त्वयम् मोहनीय कर्मणः पञ्चापि भावाः प्राप्यन्ते । मोहनीयवर्जितज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणांघातिकर्मणामुदयक्षयक्षयोपशमपरिणामस्वभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः । शेषाणां वेदनीयायुर्नामगोत्रस्वरूपाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्त्रय एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति ।
प्रतिपादिता जीवेषु तदाश्रितकर्मसु च पञ्चापि भावाः । अधुना तान् अजीवेषु बिभणिषुराह – “धम्माइ” इत्यादि । इह पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः १ अधर्मास्तिकायः २ आकाशास्तिकायः ३ पुद्गलास्तिकायः ४ कालद्रव्यं ५ चेति परिग्रहः । तत्र धारयति - गतिपरिणतजीवपुद्गलान् तत्स्वभावतायामवस्थापयतीति धर्मः, अस्तयश्चेह प्रदेशास्तेषां चीयत इति काय:- सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । तथा न धारयतिगतिपरिणतानपि जीवपुद्गलान् तत्स्वभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात् तस्येत्यधर्मः शेषं प्राग्वत् । आ-समन्तात् काशते - अवगाहदानतया प्रतिभासत इत्याकाशः, शेषं प्राग्वत् । पूरणगलनघर्माण: पुद्गलाः, पृषोदरादित्वाद् इष्टरूपसिद्धिः, शेषं पूर्ववत् । तथा "कलण समाने " कलनं कालः, कल्यते वा - परिच्छिद्यते वस्त्वनेनेति काल:, कलानां वा समयादिरूपाणां समूहः कालः । आह सामूहिके प्रत्वये नपुंसकलिङ्गेन भवितव्यम्, यथा कापोतं मायूरं चेति, [तन, ]
क० २५