________________
११-१३] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१७७ च केषाश्चिदवधिदर्शनसम्भवात् । तेभ्यश्चक्षुर्दर्शनिनोऽसङ्ख्यातगुणाः चतुरिन्द्रियादीनामपि चक्षुदर्शनिनां तत्र प्रक्षेपात् । तेभ्योऽनन्तगुणाः केवलदर्शनिनः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलदर्शनयुक्तत्वात् । तेभ्योऽप्यनन्तगुणा अचक्षुर्दर्शनिनः, सर्वसंसारिजीवानां सिद्धेभ्योऽनन्तगुणत्वात् , तेषां च नियमादचक्षुर्दर्शनोपेतत्वात् । यदाहुः परममुनयः
एएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिदसणीणं केवलदंसणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा ओहिदंसणी, चक्खुदसणी असंखिजगुणा, केवलदसणी अणन्तगुणा, अचक्खुदंसणी अणंतगुणा । (प्रज्ञा० पद ३ पत्र १३७-२) इति ।
॥ ४२ ॥ पच्छाणुपुचि लेसा, थोवा दो संख णंत दो अहिया। .
अभवियर थोव णंता, सासण थोवोवसम संखा ॥४३॥ लेण्याद्वारे पश्चानुपूर्व्या लेश्या वाच्याः । तद्यथा-शुक्ललेश्या पद्मलेश्या तेजोलेश्या कापोतलेश्या नीललेश्या कृष्णलेश्या । तत्र स्तोकाः शुक्ललेश्यावन्तः, वैमानिकेष्वेव देवेषु लान्तकादिप्वनुत्तरसुरपर्यवसानेषु केषुचिदेव कर्मभूमिजेषु मनुष्यस्त्रीपुंसेषु तिर्यस्त्रीपुंसेषु च केपुचित् सङ्ख्यातवर्षायुष्केषु शुक्ललेश्यासम्भवात् । ततः सङ्ख्यातगुणाः पद्मलेश्यावन्तः, सनत्कुमारमाहेन्द्रब्रह्मलोकदेवेषुक्तरूपेषु च मनुष्यतिर्यक्षु पद्मलेश्याभावात् , सनत्कुमारादिदेवानां च लान्तकादिदेवेभ्यः सङ्ग्येयगुणत्वात् । तेभ्योऽपि तेजोलेश्यावन्तः सङ्ख्येयगुणाः, सौधर्मशानादिदेवेषु केषुचिञ्च तिर्यअनुप्येषु तेजोलेश्यासद्भावात् , तेषां च सकलपद्मलेश्यासहिततिर्यगादिप्राणिगणापेक्षया सहयेयगुणत्वात् । ततः कापोतलेश्यावन्तोऽनन्तगुणाः, अनन्तकायिकेष्वपि कापोतलेश्यासद्भावात् । ततोऽपि विशेषाधिका नीललेश्यावन्तः, नारकादीनां तल्लेश्यावतां तत्र प्रक्षेपात् । ततः कृष्णलेश्यावन्तो विशेषाधिकाः, भूयसां तल्लेश्यासद्भावात् । यदभ्यधायि परमगुरुणा
एएसि गं भंते ! जीवाणं सलेस्साणं किण्हलेस्साणं नीललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुक्कलेस्साणं अलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्थोवा जीवा सुक्कलेस्सा, पम्हलेस्सा संखिज्जगुणा, तेउलेस्सा संखिज्जगुणा, अलेस्सा अणंतगुणा, काउलेस्सा अणंतगुणा, नीललेस्सा विसेसाहिया, किण्हलेस्सा विसेसाहिया, सलेस्सा विसेसाहिया । (प्रज्ञा० पद ३ पत्र १३५-१) ___ भव्यद्वारे--अभन्याः खोकाः, तेषां वक्ष्यमाणखरूपजघन्ययुक्तानन्तकतुल्यत्वात् । तेभ्यो
१ एतेषां भदन्त ! जीवानां चक्षुदर्शनिनामचक्षुर्दर्शनिनामवधिदर्शनिनां केवलदर्शनिना च कतरे कतरेभ्यः अल्पा वा बहुका वा तुल्या वा विशेषाधिका वा! गौतम ! सर्वस्तोका जीवा अवधिदर्शनिनः, चक्षुर्दर्शनिनोऽसोयगुणाः, केवलदर्शनिनोऽनन्तगुणाः, अचक्षुदर्शनिनोऽनन्तगुणाः ॥ २ एतेषां भदन्त! जीवानां सलेश्यानां कृष्णलेश्यानां नीललेश्यानां कापोतलेश्यानां तेजोलेश्याना पालेश्यानां शुक्लेश्यानां अलेश्यानां च कतरे कतरेभ्योऽल्पाबा बहका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्त्रोका जीवाः शकलेश्याः. पालेश्याः सोयगुणाः, तेजोलेश्याः सञ्जयगुणाः, अलेश्या अनन्तगुणाः, कापोतलेश्या अनन्तगुणाः, नीललेश्या विशेषाधिकाः, कृष्णलेश्या विशेषाधिकाः, सलेश्या विशेषाधिकाः ।।