________________
१७६
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा.. जेत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं, दो वि एयाई अन्नुन्नमणुगयाई ।
(नन्दी पत्र १४०-१) इति । तेभ्यश्च मतिज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसत्यातगुणाः, मिथ्यादृष्टिसुरादीनां विभाज्ञानवतां तेभ्योऽसङ्ख्यातगुणत्वादिति ॥ ४० ॥
केवलिणो णंतगुणा, मइसुयअन्नाणि गंतगुण तुल्ला ।
सुहमा थोवा परिहार संख अहवाय संखगुणा ॥४१॥ तेभ्यश्च विभङ्गज्ञानिभ्यः केवलिनोऽनन्तगुणाः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलज्ञानयुक्तत्वात् । तेभ्योऽपि च केवलज्ञानिभ्यो मत्यज्ञानिश्रुताज्ञानिनोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिकायिकानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टितया मत्यज्ञानश्रुताज्ञानयुक्तत्वात् । एते चोभयेऽपि मत्यज्ञानिश्रुताज्ञानिनः खस्थाने चिन्त्यमानास्तुल्याः, मत्यज्ञानश्रुताज्ञानयोः परस्परमविनाभावित्वात् । उक्तं च
ऐएसि णं भंते ! जीवाणं आभिणिबोहियनाणीणं मुयनाणीणं ओहिनाणीणं मणपज्जवनाणीणं केवलनाणीणं मइअन्नाणीणं सुयअन्नाणीणं विभंगनाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? गोयमा ! सबत्थोवा जीवा मणपज्जवनाणी, ओहिनाणी असंखेजगुणा, आमिणिबोहियनाणी सुयनाणी दो वि तुल्ला विसेसाहिया, विभंगनाणी असंखिजगुणा, केवलनाणी अणंतगुणा, मइअन्नाणी सुयअन्नाणी य दो वि तुल्ला अणंतगुणा ।
(प्रज्ञा० पद ३ पत्र १३७-१) संयमद्वारे---सर्वस्तोकाः सूक्ष्मसम्परायसंयमिनः, शतपृथक्त्वमात्रसम्भवात् । तेभ्यः परिहारविशुद्धिकाः सङ्ख्यातगुणाः, सहस्रपृथक्त्वसम्भवात् । तेभ्योऽपि यथाख्यातचारित्रिणः सङ्ख्यातगुणाः, कोटिपृथक्त्वेन प्राप्यमाणत्वादिति ॥ ४१॥
छेय समईय संखा, देस असंवगुण गंतगुण अजया।
थोव असंग्व दु णंता, ओहि नयण केवल अचक्खू ॥४२॥ तेभ्यो यथाख्यातचारित्रिभ्यश्छेदोपस्थापनचारित्रिणः सङ्ख्येयगुणाः, कोटीशतपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽपि सामायिकसंयमिनः सङ्ख्येयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपि देशविरता असङ्ख्यातगुणाः, असङ्ख्यातानां तिरश्चां देशविरतिसम्भवात् । तेभ्योऽनन्तगुणाः 'अयताः' संयमहीना आद्यगुणस्थानकचतुष्टयवर्तिन इत्यर्थः, मिथ्यादृशामनन्तानन्तत्वात् । दर्शनद्वारे यथाक्रममेवं पदघटना-स्तोका अवधिदर्शनिनः, सुरनारकाणां नरतिरश्चां
१ यत्र मतिज्ञानं तत्र श्रुतज्ञानम् , यत्र श्रुतज्ञानं तत्र मतिज्ञानम् , द्वे अपि एते अन्योन्यमनुगते ॥ २ एतेषां भदन्त ! जीवानां आभिनिबोधिकज्ञानिनां श्रुतज्ञानिनामवधिशानिनो मनःपर्यवज्ञानिनां केवलज्ञानिना मत्यज्ञानिनां श्रुताज्ञानिनां विभङ्गज्ञानिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा नुल्या वा विशेषाधिका वा ! गौतम ! सर्वस्नोका जीवा मनःपर्यवज्ञानिनः, अवधिज्ञानिनोऽसङ्ख्ययगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो द्वयेऽपि तुल्या विशेषाधिकाः, विभङ्गशानिनोऽसधेयगुणाः, केवलज्ञानिनोऽनन्तगुणाः, मत्यज्ञानिनः श्रुताज्ञानिनश्च द्वयेऽपि तुल्या अनन्तगुणाः ।।