________________
१५० देवेन्द्रसूरिविरचितस्योपशटीकोपेतः
[गाथा नानि भवन्ति । 'चः' समुच्चये । कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसझ्येयलोकाकाशप्रदेशर्ममाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्वदेशविरतिसर्वविरतीनामपि सद्भावो न विरुध्यते । उक्तं च
सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रयमेव भवति । उत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपि इति । श्रीमदाराध्यपादा अप्याहु:
सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं ।
पुव्वपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ ( आव०नि० गा० ८२२) श्रीभगवत्यामप्युक्तम्सोमाइयसंजए णं भंते ! कइलेसासु हुज्जा ? गोयमा ! छसु लेसासु होज्जा, एवं छेओवट्ठावणियसंजए वि (श० २५ उ० ७ पत्र ९१३-१) इत्यादि ।
तथा 'द्वयोः' तेजोलेश्यापद्मलेश्ययोः सप्त गुणस्थानानि भवन्ति, तत्र षट् पूर्वोक्तान्येव सप्तमं त्वप्रमत्तगुणस्थानकम् , अप्रमत्तसंयताध्यवसायस्थानापेक्षया मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां तेजोलेश्यापद्मलेश्ये तारतम्येन जघन्यात्यन्ताविशुद्धिके द्रष्टव्ये । तथा अनाहारके पञ्च गुणस्थानानि भवन्ति । कानि? इत्याह--'प्रथमान्तिमद्विकाऽयतानि' इति द्विकशब्दम्य प्रत्येकं योगात् प्रथमद्विकं-मिथ्यादृष्टिसासादनलक्षणम् अन्तिमद्विकं-सयोगिकेवल्ययोगिकेवलिलक्षणम् 'अयतः' इति अविरतसम्यग्दृष्टिश्चेति । तत्र मिथ्यात्वसाखादनाविरतसम्यग्दृष्टिलक्षणं गुणस्थानकत्रयमनाहारके विग्रहगती प्राप्यते, सयोगिकेवलिगुणस्थानकं त्वनाहारके समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु द्रष्टव्यम् । यदवादि-"चतुर्थतृतीयपञ्चमेप्वनाहारकः” इति । अयोगिकेवल्यवस्थायां तुयोगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावाद् अनाहारकत्वम् , “औदारिकवैक्रियाहारकशरीरपोषकपुद्गलोपादानमाहारः” इति प्रवचनोपनिषद्वेदिनः । एवं मार्गणास्थानेषु गत्यादिषु "गुण" ति गुणस्थानकान्यभिहितानि ॥ २३ ॥ अधुना मार्गणास्थानेप्वेव योगानभिधित्सुः प्रथमं तावद्योगानेव स्वरूपत आह
सच्चेयर मीस असचमोस मण वइ विउवियाहारा ।
उरलं मीसा कम्मण, इय जोगा कम्ममणहारे ॥ २४ ॥ इह योगशब्देन कारणे कार्योपचारात् तत्तत्सहकारिभृतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम् । तत्र मनोयोगश्चतुर्धा, तद्यथा--सत्यमनोयोगः १ असत्यमनोगः २ सत्यासत्यमनोयोगः ३ असत्यामृपमनोयोगः ४ । तत्र सन्तो मुनयः पदार्था वा, तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थिततत्त्वचिन्तनेन च हितः सत्यः, यथाऽस्ति जीवः सदसद्रूपः कायप्रमाण इत्यादिरूपतया यथावस्थितवस्तुविकल्पनपर इत्यर्थः, सत्यश्चासौ मनोयोगश्च सत्य
१ सम्यक्त्वश्रुतं सर्वामु लभते शुद्धासु तिसृषु च चारित्रम् । पूर्वप्रतिपन्नः पुनरन्यतरस्यां तु लेश्यायाम् ॥ २ सामायिकसंयतो भदन्त ! कतिषु लेश्याम भवेत् ? गौतम ! पट्सु लेश्यासु भवेत् , एवं छेदोपस्थापनीयसंयतोऽपि ॥