________________
२१-२३] षडशीतिनामा चतुर्थः कर्मग्रन्थः । वि। जैह नाणी तो अत्थेगइया तिनाणी अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिनाणी । जे चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी । जे अन्नाणी ते नियमी मइअन्नाणी सुयअन्नाणी विभंगनाणी । (श० ८ उ०२ पत्र ३५५-१) इति । __ अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृश्यादीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् । स एव विभङ्गज्ञानी यदा सासादनभावे मिश्रभावे वा वर्तते तत्रापि तदानीमवधिदर्शनं प्राप्यत इति । यत् पुनः सयोग्ययोगिकेवलिगुणस्थानकद्विकं तत्र मतिज्ञानादि न सम्भवत्येव, तद्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् "नट्ठम्मि उ छाउमथिए नाणे" (आव०नि० गा० ५३९) इति वचनप्रामाण्यादिति ॥ २१ ॥
अड उवसमि चउ वेयगि, खहगे इक्कार मिच्छतिगि देसे।
सुहमे य सठाणं तेर जोग आहार सुक्काए ॥ २२ ॥ काकाक्षिगोलकन्यायाद् इह "अयादीनि" इति पदं सर्वत्र योज्यते। ततोऽयतादीन्युपशान्समोहान्तान्यष्टौ गुणस्थानान्यौपशमिकसम्यक्त्वे भवन्ति । अयतादीन्यप्रमत्तान्तानि चत्वारि 'वेदके' क्षायोपशमिकापरपर्याये गुणस्थानकानि भवन्ति । क्षायिकसम्यक्त्वे अयतादीन्ययोगिकेवलिपर्यवसानान्येकादश गुणस्थानकानि भवन्ति । तथा 'मिथ्यात्वत्रिके' मिथ्यादृष्टिसासादनमिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे' सूक्ष्मसम्पराये 'चः' समुच्चये 'स्वस्थान' निजस्थानम् । इदमुक्तं भवति-मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम् , सासादनमार्गणास्थाने सासादनं गुणस्थानम् , मिश्रे मार्गणास्थाने मिश्रं गुणस्थानम् , देशसंयममार्गणास्थाने देशविरतं गुणस्थानम् , सूक्ष्मसम्परायसंयममार्गणास्थाने सूक्ष्मसम्परायगुणस्थानम् । तथा 'योगे' मनोवाकायलक्षणे अयोगिकेवलिवर्जितानि शेषाणि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि सम्भवात् । तथा आहारकेषु आद्यानि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं सम्भवात् । तथा "सुक्काए" त्ति शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि भवन्ति, न त्वयोगिकेवलिगुणस्थानम् , तस्य लेश्यातीतत्वादिति ॥ २२ ॥
अस्सन्निसु पढमदुर्ग, पढमतिलेसासु छच्च दुसु सत्त।।
पढमंतिमदुगअजया, अणहारे मग्गणासु गुणा ॥ २३ ॥ 'असंज्ञिपु' संज्ञिव्यतिरिक्तेषु प्रथमं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयं भवति । तत्र (ग्रन्थानम्-१०००) मिथ्यात्वमविशेषेण सर्वत्र द्रष्टव्यम् , सासादनं तु लब्धिपर्याप्तकानां करणापर्याप्तावस्थायामिति । प्रथमासु तिस्पु लेश्यासु मिथ्यादृष्ट्यादीनि प्रमत्तान्तानि षड् गुणस्थाशानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । यदि ज्ञानिनः ततोऽस्त्येककाः त्रिज्ञानिनोऽस्त्येककाश्चतुर्सानिनः । ये त्रिज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः । ये चतुर्ज्ञानिनते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः । ये अज्ञानिनस्ते नियमाद् मत्यज्ञानिनः श्रुताशानिनो विभाशानिनः॥ १ जे नाणी ते अ° भगवत्याम् ॥ २ °मा तिअनाणी, तं जहा-मई भगवस्याम् ॥ ३ नष्टे तु छाद्मस्थिके ज्ञाने ॥ ४ °तादीति पक०॥