________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गामा वा भवेद् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिमतिपतौ वा, आपकश्रेणिपतिपत्तौ स्ववेद इति । उक्तं च--
'वेदो पवित्तिकाले, इत्थीवजो उ होइ एगयरो।
पुष्वपडिवन्नओ पुण, होज सवेओ अवेओ वा ॥ (पञ्चव० गा० १४९७) ... कल्पद्वारे-स्थितकल्प एवायं नास्थितकल्पे, "ठियकप्पम्मि वि नियमा" (पञ्चव० गा० १५३३) इति वचनात् । तत्राऽऽचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पा स्थितकल्प उच्यते, ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु षट्वस्थितास्तत्कल्पोऽस्थितकल्पः । उक्तं च--
ठिय अढिओ य कप्पो, आचेलकाइएस ठाणेसु ।
सन्वेसु ठिया पढमो, चउ ठिय छसु अट्ठिया बीओ।। (पञ्चव० गा० १४९९) आचेलक्यादीनि च दश स्थानान्यमूनि
आचेलकुइसियसिज्जायररायपिंडकिइकम्मे ।
वयजिट्ठपडिक्कमणे, मासंपज्जोसवणकप्पे ॥ (पञ्चव० गा० १५००) चत्वारश्चावस्थिताः कल्पा इमे
सिज्जोयरपिंडम्मी, चाउज्जामे य पुरिसजेटे य ।
किइकम्मम्स य करणे, चतारि अवट्ठिया कप्पा ॥ (पञ्चाश० १७ गा० १०) लिङ्गद्वारे--नियमतो द्विविधेऽपि लिने भवति । तद्यथा---द्रव्यलिङ्गे भावलिङ्गे च । एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् । लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चि भवति, तत्राऽपीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम् , यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते । अथ प्रथमत एव कस्मात् प्रवर्तते ? उच्यते--कर्मवशात् । उक्तं च
लेसासु विसुद्धासुं, पडिवज्जइ तीसु न उण सेसासु । पुन्वपडिवन्नओ पुण, हुज्जा सव्वासु वि कहंचि ॥ नचंतसंकिलिट्टासु थोवकालं च हंदि इयरेसु ।
चित्ता कम्माण गई, तहा वि विरियं फलं देह ।। (पञ्चव० गा० १५०३-४) १ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवति एकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा ॥ २ स्थितकल्प एव नियमात् । ३ स्थितोऽस्थितश्च कल्पः आचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्ष स्थिताः षट्स्वस्थिता द्वितीयः ॥ ४ आचेलक्यौदेशिकशय्यातरराजपिण्डकृतिकर्माणि । प्रतज्येष्ठप्रतिक्रमणानि मासपर्यषणाकल्पौ॥ ५ शयातरपिण्डे चतुर्यामे च पुरुषज्येछये च । कृतिकर्मणश्च करणे चलारोऽवस्थिताः कल्याः॥ ६ पञ्चाशके प्रवचनसारोद्धारे च-'ठिइकप्पो मज्झिमाणं तु' इत्येवं पाठः ॥ ७ लेश्यासु विशुद्धा प्रतिपद्यते तिसषु न पुनः शेषाम् । पूर्वप्रतिपक्षकः पुनर्भवेत् सर्वाखपि कश्चित् ॥ नात्यन्तसंक्लिष्टासु स्तोककालं पहन्दि इतरासु । चित्रा कर्मणां गतिः तथापि वीर्य फलं ददाति ॥ ८ इयराम घ० पश्चवस्तुकेच :