________________
१२]
षडशीतिनामा चतुर्थः कर्मग्रन्थः। ते 'वि असंखा लोगा, अविरुद्धा चेव पढमबीयाणं।
उवरि पि तो असंखा, संजमठाणाउ दुण्हं पि ॥ (पञ्चव० गा० १५३१) तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु । यदा त्यतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिककल्पसमाप्त्यनन्तरमन्येप्वपि च चारित्रेषु सम्भवात् , तेष्वपि च वर्तमानस्याऽतीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वात् । उक्तं च--
सट्टाणे पडिवत्ती, अन्नेसु वि हुज पुव्वपडिवन्नो ।
तेसु वि वÉतो सो, तीयनयं पप्प वुच्चइ उ ॥ (पञ्चव० गा० १५३२) तीर्थद्वारे-परिहारविशुद्धिको नियमतः तीर्थे प्रवर्तमान एव सति भवति, न तूच्छेदेऽनुपत्त्यां वा तदभावे जातिस्मरणादिना । उक्तं च
"तिथि त्ति नियमओ च्चिय, होइ स तित्थम्मि न उण तदभावे ।।
विगएऽणुप्पन्ने वा, जाईसरणाइएहिं तु ॥ (पञ्चय० गा० १४९२) पर्यायद्वारे--पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च । एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च । तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोत्कृटतो देशोनपूर्वकोटीप्रमाणौ । उक्तं च
ऐयम्स एस नेओ, गिहिपरियाओ जहन्निगुणतीसा । ___ जइपरियाओ वीसा, दोसु वि उक्कोस देसूणा ॥ ( पश्चव० गा० १४९४) आगमद्वारे-अपूर्वागमं स नाधीते, यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति । उक्तं च
अप्पुव्वं नाहिज्जइ, आगममेसो पडुच्च तं कैप्पं । जमुचियपगहियजोगाराहणओ चेव कयकिञ्चो । प्रवाहीयं तु तयं, पायं अणुसरइ निच्चमेवेसो।
एगग्गमणो सम्मं, विस्सोयसिगाइखयहेऊ ।। (पञ्चव० गा० १४९५-९६) वेदद्वारे-प्रवृत्तिकाले वेदः पुरुषवेदो वा नपुंसकवेदो वा भवेत् , न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवात् । अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो
१ तान्यपि असङ्ख्यानि लोकानि अविरुद्धान्येव प्रथमद्वितीययोः । उपर्यपि ततोऽसङ्ख्यातानि संयमस्थानानि इयोरपि ॥ २ ताण वि असंखलो पञ्चवस्तुके ॥ ३ खस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिपमः। तेष्वपि वर्तमानः सोऽतीतनयं प्राप्य उच्यते तु॥ ४ तीर्थे इति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिकैस्तु ॥ ५ एतस्यैष शेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् ( वर्षाणि) । यतिपर्यायो विंशतियोरपि उत्कृष्टो देशोना (पूर्वकोटी)॥ ६ अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पम् । यदुचितप्रगृहीतयोगाराधनत एव कृतकृत्यः ॥ ७ जम्मं पञ्चवस्तुके ॥ ८ °पगिहजो पञ्चवस्तुके ॥ ९ पूर्वाधीतं तु तत् (श्रुतम्) प्रायोऽनुस्मरति नित्यमेवैषः । एकाग्रमनाः सम्यग् विश्रोतसिकादिक्षयहेतुम् ॥