________________
[गाथा
१०१
देवेन्द्रसूरिविरचितः सावचूरिकः सामान्यतः सप्तनवति ते बध्नन्ति, मिथ्यादृशः षण्णवतिम् , सासादना द्विनवतिम् , मिश्रेऽविरते चोद्योतादिचतुष्कस्य प्रागेवापनीतत्वात् सम्पूर्ण एव रत्नप्रभादिभः ततो मिश्राः सप्तति अविरता द्विसप्तति बन्नन्ति । मिथ्यात्वादिगुणस्थानत्रयाभावात् पश्चानुत्तरविमानदेवा एतामेवाविरतगुणस्थानकसत्कां द्विसप्ततिं बघ्नन्तीत्यनुक्तमपि ज्ञेयमिति । उक्तं देवगतौ बन्धखामित्वम् , तगणनाच्च गतिबन्धमार्गणा समाप्ता । साम्प्रतमिन्द्रियेषु कायेषु च तदारभ्यते-"अपज" इत्यादि । अपर्याप्ततिर्यग्वद् नवोत्तरशतमेकेन्द्रियपृथ्वीजलतरुविकलेषु द्रष्टव्यम् । अयमर्थ:-- विंशत्युत्तरशतमध्याद् जिननामाघेकादशप्रकृतीर्मुक्त्वा शेषं नवोत्तरशतमेकेन्द्रिया विकलेन्द्रियाः पृथ्वीजलवनस्पतिकायाश्च सामान्यपदिनो मिथ्यादृशश्च बध्नन्ति ॥ ११ ॥ अर्थतेषामेव सासादनगुणस्थाने बन्धमाह
छनवइ सासणि विणु सुहुमतेर केइ पुण बिंति चउनवई।
तिरियनराऊहिँ विणा, तणुपज्जतिं न ते जति ॥ १२ ॥ व्याख्या-प्रागुक्तं नवोत्तरशतं सूक्ष्मत्रिकादिप्रकृतित्रयोदशकं मिथ्यात्व एव व्यवच्छिन्नबन्धमिति कृत्वा तद् विना षण्णवतिः सासादने एकेन्द्रियविकलेन्द्रियपृथ्वीजलवनस्पतिकायानां भवति । केचित् पुनराचार्या ब्रुवते चतुर्नवतिं तिर्यमरायुष्काभ्यां विना, यतस्त एकेन्द्रिय विकले. न्द्रियादयः सासादनाः सन्तस्तनुपर्याप्तिं न यान्ति अतस्ते तिर्यनरायुरबन्धकाः । अयं भावार्थ:तिर्यनरायुषोस्तनुपर्याप्त्या पर्याप्तरेव बध्यमानत्वात् पूर्वमतेन शरीरपर्याप्स्युत्तरकालमपि सासादनभावस्येष्टत्वाद् आयुर्बन्धोऽभिप्रेतः, इह तु प्रथममेव तन्निवृत्तेर्नेष्ट इति षण्णवतिः । तिर्यमरायुषी विना मतान्तरेण चतुर्नवतिः ॥ १२॥ उक्त एकेन्द्रियादीनां बन्धः, अथ पञ्चेन्द्रियाणां त्रसकायिकानां च तमाह
ओहु पणिदि तसे गइतसे जिणिकार नरतिगुच्च विणा ।
मणवयजोगे ओहो, उरले नरभंगु तम्मिस्से ॥ १३ ॥ व्याख्या-'ओघः' विंशत्युत्तरशतादिलक्षणः कर्मस्तवोक्तः पञ्चेन्द्रियेषु त्रसकायिकेषु चावगन्तव्यः । तद्यथा-सामान्यतो विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः, प्रमत्ते त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत् , भागपञ्चके षट्पञ्चाशत् , सप्तमभागे षड्विंशतिः, अनिवृत्तिबादरे आये भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश, सूक्ष्मे सप्तदश, शेषगुणस्थानत्रये सातस्यैकस्य बन्धः, अयोगिनि बन्धाभावः । गतित्रसाः-तेजोवायुकायास्तेषु जिननामाघेकादशप्रकृतीर्नरत्रिकमुच्चैर्गोत्रं च विना विंशत्युत्तरं शतं शेषं पञ्चोत्तरं शतं बन्धे लभ्यते, सासादनादिभावस्तु नैषां सम्भवति । यत उक्तम्
ने हु किंचि लमिज्ज सुहुमतसा ॥ सूक्ष्मत्रसास्तेजोवायुकायजीवा इति । एवमुक्त इन्द्रियेषु कायेषु च बन्धः, सम्प्रति योगेषु १ न हि किंचिल्लभन्ते सूक्ष्मत्रसाः ॥