________________
बन्धमामिलापस्तीस कर्ममयः । विसापासकोनसप्ततिः, अनिस्तसम्यग्दृष्टीनामेकसप्ततिः, देशविरतानां समाहिः, भामजाना त्रिषष्टिः, अनमत्तानामेकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिकादराणां प्रथमे मागेऽष्टपश्चाशत् , भामपञ्चके प्रपञ्चाशत् , सप्तमभागे षड्विंशतिः, अनिवृत्तिबावराणामाये भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश च, सूक्ष्मसम्मायाणां सप्तदश, उपशान्तमोहक्षीणमोहसयोगिनामेका सातलक्षणा प्रकृतिर्बन्धे प्राप्यते, अयोगिनां तु बन्धाभावः । एवमन्यत्राप्योधनन्धः कर्मस्तवानुसारेण भावनीयः । उक्तस्तिर्यमराणां पर्याप्तानां बन्धः, अथ तेषामेवापर्याप्तानां तमाह-"जिणइकारसहीणं" इत्यादि । यदेव नराणामोर घबन्धे विंशत्युत्तरशतं तदेव जिननामाघेकादशप्रकृतिहीनं शेषं नवोत्तरशतमपर्याप्ततिर्यमस ओघतो मिथ्यात्वे च बघ्नन्ति । यद्यपि करणापर्याप्तो देवो मनुष्यो वा जिननामकर्म सम्यक्त्वप्रत्ययेन बन्नाति तथापीह नराणां लब्ध्याऽपर्याप्तत्वेन विवक्षणाद् न जिननामबन्धः ॥ ९॥ तिर्यग्गतौ मनुष्यगतौ च बन्धखामित्वमुक्तम् । साम्प्रतं देवगतिमधिकृत्य तदुच्यते
निरय व्व सुरा नवरं, ओहे मिच्छे इगिदितिगसहिया।
कप्पदुगे वि य एवं, जिणहीणो जोइभवणवणे ॥१०॥ ___ व्याख्या-सुरा अपि नारकवद् ओघतो विशेषतश्च तद्वन्धवामिनोऽवगन्तव्याः । नवरमयं विशेषः-ओघे मिथ्यात्वगुणस्थानके च बन्धमाश्रित्य सुरा एकेन्द्रियादित्रिकसहिता द्रष्टव्याः । ततोऽयमर्थः--यो नारकाणामेकोत्तरशतरूप ओघबन्धः स एवैकेन्द्रियजालिखावरनामाऽऽतपनामप्रकृतित्रयसहितः सुराणां सामान्यतो बन्धश्चतुरप्रशतम् , तदेव मिमावे जिननामरहितं व्युत्तरशतम् , एतदेवैकेन्द्रियजातिस्थावराऽऽतपनपुंसकवेदमिथ्यात्वहुण्डसेवार्तलक्षणप्रकृतिसप्तकहीनं सासादने षण्णवतिः, षण्णवतिरेवानन्तानुबन्ध्यादिषड्विंशतिप्रकृतिरहिता मिश्रे सप्ततिः, सैव जिननामनरायुष्कयुता द्विसप्ततिस्तामबिरतसम्यग्दृष्टयो देवा बनन्तीति सामान्यदेवगतिबन्धः । साम्प्रतं देवविशेषनामोच्चारणपूर्वकं तमाह-"कप्पदुगे" इत्यादि । 'कल्पद्विकेऽपि' सौधर्मेशानाख्यदेवलोकद्वयेऽपि ‘एवं' सामान्यदेवबन्धवद् बन्धो द्रष्टव्यः । तथाहि---सामान्येन चतुरप्रशतम् , मिथ्यादृशां व्यग्रशतम् , सासादनानां पण्णवतिः, मिश्राणां सप्ततिः, अविरतानां द्विसप्ततिः । देवौषो जिननामकर्महीनो ज्योतिष्कमवनपतिव्यन्तरदेवेषु तद्देवीषु च विज्ञेयः, जिनकर्मसत्ताकस्य तेषूत्पादाभावेन तत्र तहन्धासम्भवात्, ततः सामान्यतस्यधिकशतम् , मिथ्यात्वेऽपि त्र्यधिकशतम् , सासादने षण्णवतिः, मित्रे ससतिः, अविरते एकसप्ततिः ॥ १०॥
रयण व्व सणकुमाराइ आणयाई उजोयचउरहिया।
अपजतिरिय व्व नवसयमिगिदिपुढविजलतरुविगले ॥११॥ व्याख्या-सनत्कुमाराद्याः सहस्रारान्ता देवा रत्नप्रभादिप्रथमपृथिवीत्रयनारकवद् बन्धमाश्रित्य द्रष्टव्याः । तद्यथा-सामान्यनैकाप्रशतम् , मिथ्याशां शतम् , सासादनानां षण्णवतिः, मित्राणां सप्ततिः, अविरतानां द्विसप्ततिः । आनताद्या अवेयकनवकान्ता देवा अपि उद्योतनामतिर्यग्गतितिर्यगानुपूर्वीतिर्यगायुःप्रकृतिचतुष्करहिता रत्नममादिनारकवदेव द्रष्टव्याः, ततः