________________
देवेन्द्रसरिविरपितखोपाटीकोतः
[गामा बन्धे 'विशं शतं' विंशत्युत्तरं शतं कर्मपकृतीनां भवतीति शेषः । तथाहि-मतिज्ञानावरणं शुतज्ञानावरणम् अवधिज्ञानाचरणं मनःपर्यायज्ञानाचरणं केवलज्ञानावरणमिति पञ्चधा ज्ञानावरणम् । निद्रा निद्रानिद्रा प्रचला प्रचलापचला स्त्यानदिः चक्षुर्दर्शनाचरणम् अचक्षुर्दर्शनाव. रणम् अवधिदर्शनावरणं केवलदर्शनावरणमिति नवविधं दर्शनावरणम् । वेदनीयं द्विधासातवेदनीयम् असातवेदनीयं च । मोहनीयमष्टाविंशतिभेदम् , तद्यथा-मिथ्यात्वं सम्यग्मिध्यात्वं सम्यक्त्वमिति दर्शननिकम् , अनन्तानुबन्धी क्रोधो मानो माया लोभः ४ अप्रत्याख्यानावरणः क्रोधो मानो माया लोभः ४ मत्याख्यानावरणः क्रोधो मानो माया लोभः ४ संज्वलनः कोषो मानो माया लोभः ४ इति षोडश कषायाः, स्त्री पुमान् नपुंसकमिति वेदत्रयम् , हास्यं रतिः अरतिः शोको भयं जुगुप्सेति हास्यषटकम् , मिलितं नव नोकषायाः । आयुश्चतुर्धा-नरकायुः तिर्यगायुः मनुष्यामुः देवायुरिति । अथ नामकर्म द्विचत्वारिंशद्विधम् , तद्यथा-चतुर्दश पिण्डप्रकृतयः अष्टौ प्रत्येकप्रकृतयः सदशकं सावरदशकं चेति । तत्र पिण्डप्रकृतय इमाः-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम सङ्घातननाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । आसां मेदा दर्श्यन्ते-नरकतिर्यअनुष्यदेवगतिनामभेदात् चतुर्धा गतिनाम, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियजातिनामेति पञ्चधा जातिनाम, औदारिकवैक्रियाऽऽहारकतैजसकार्मणशरीस्नामेति पञ्चधा शरीरनाम, औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गम् आहारकाङ्गोपाङ्गनामेति त्रिधाऽङ्गोपाङ्गनाम, बन्धननाम पञ्चधा औदारिकबन्धना दि शरीरवत् , एवं सङ्घातनमपि, संहनननाम षड्नेदम्-वज्रऋषभनाराचम् ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका सेवाते चेति, संस्थाननाम पडिधं-समचतुरसं न्यग्रोधपरिमण्डलं सादि वामनं कुजं हुण्डं चेति, वर्णनाम पश्चधा-कृष्णं नीलं लोहितं हारिद्र शुक्लं चेति, गन्धनाम द्विधा-सुरेभिगन्धनाम दुरभिगन्धनामेति, रसनाम पञ्चमा-तिक्त कटुकं कषायम् अम्लं मधुरं चेति, स्पर्शनाम अष्टधा-कर्कशं मृदु लघु गुरु शीतम् उष्णं स्निग्धं रूक्षं च, आनुपूर्वी चतुर्धा-नरकानुपूर्वी तिर्यगानुपूर्वी मनुष्यानुपूर्वी देवानुपूर्वीति, विहायोगतिर्द्विधा-प्रशस्तविहायोगतिः अप्रशस्तविहायोगत्तिरिति आसां चतुर्दशपिण्डप्रकृतीनामुत्तरभेदा अमी पञ्चषष्टिः । प्रत्येकप्रकृतयस्त्विमाः-पराधातनाम उपघातनाम उच्छासनाम आतपनाम उद्योतनाम अगुरुलधुनाम तीर्थकरनाम निर्माणनामेति । त्रसदशकमिदम्-असनाम बादस्नाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुखरनाम आदेयनाम यशःकीर्तिनामेति । स्थावरदशकं पुनरिदम् स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम अयशःकीर्तिनामेति । पिण्डमकृत्युसरभेदाः पञ्चषष्टिः प्रत्येकप्रकृतयोऽष्टौ त्रसदशकं स्थावरदशकं च सर्वमीलने त्रिनवतिः । गोत्रं द्विधा--उचर्गोत्रं नीचैर्गोत्रं च । अन्तरायं पञ्चधा-दानान्तरायं लामान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं चेति । एवं च कृत्वा ज्ञानावरणे कर्मप्रकृतयः पञ्च ५ दर्शनावरणे नव ९ वेदनीये द्वे २ मोहनीयेऽष्टा१पामिति ख०ग०॥ २० मिनाम असुरमिनाक० ख००॥