________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
।
[माया
जस्साउएण तुल्लाई, बंधणेहि ठिईहि य । भवोवग्गाहिकम्माई, न समुग्घायं स गच्छह ॥ अगंतूणं समुग्धायं, अणंता केवली जिणा ।
जरमरणविप्पमुक्का, सिद्धिं वरगई गया ॥ (प्रज्ञा० पत्र ६०१-१) अत्र "बंधणेहिं"ति बध्यन्त इति बन्धनानि "भुजिपत्यादिभ्यः कर्मोपादाने" (सि०५३-१२८) इति कर्मण्यनट् , कर्मपरमाणवस्तैः, शेषं सुगमम् । गत्वा वाऽगत्वा वा समुद्धा. तम् । समुद्धातखरूपं च खोपज्ञपडशीतिकटीकायां विस्तरतः प्ररूपितं तत एवावधारणी. यम् । भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्प परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधार्थमुपक्रमते । तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम् , ततः सूक्ष्मकाययोगेन बादरकाययोगम् ; तेनैव सूक्ष्ममनोयोगं सूक्ष्मवाग्योगं च सूक्ष्मकाययोगं तु सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं ध्यायन् खावष्टम्भेनैव निरुणद्धि, अन्यस्यावष्टम्भनीयस्य योगान्तरस्य तदाऽसत्त्वात्। तध्यानसामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति । तदनन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् मध्यमप्रतिपत्त्या हवपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविशति । तत्र शैलेशः-मेरुः तस्येयं स्थिरता-साम्यावस्था शैलेशी, यद्वा सर्वसंवरः शीलं तस्य य ईशः शीलेशः तस्येयं योगनिरोधावस्था शैलेशी, तस्यां करणं-पूर्वविरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्याऽघातिकर्मत्रितयस्याऽ. सङ्ख्येयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् । तच्चासौ प्रविष्टोऽयोगी स चासौ केवली च अयोगिकेवली । अयं च शैलेशीकरणचरमसमयानन्तरमुच्छि. नचतुर्विधकर्मबन्धनत्वाद् अष्टमृत्तिकालेपलिप्ताऽधोनिममक्रमाऽपनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधाऽलाबुवद ऊर्ध्व लोकान्ते गच्छति, न परतोऽपि, मत्स्यस्य जलकल्पगत्युपष्टम्भिधर्मास्तिकायाऽभावात् । स चोर्ध्व गच्छन् ऋजुश्रेण्या यावत्खाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाञ्च समयान्तरमसंस्पृशन् गच्छति ।
तदुक्तमावश्यकचूर्णी
जैत्तिए जीवो अवगाढो तावइयाए ओगाहणाए उर्दु उज्जुगं गच्छइ न वंकं, बीयं च समयं न फुसइ ॥ (पूर्वार्द्ध पत्र ५८२) इति ।। दुःषमान्धकारनिममजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणिपूज्या अप्याहुः
पजत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । हुंति मणोदवाइं, तबावारो य जम्मत्तो ।। (विशेषा० गा० ३०५९) तदसंखगुणविहीणं, समए समए निरंभमाणो सो।
मणसो सबनिरोह, कुणइ असंखिज्जसमएहिं ॥ (विशेषा० गा० ३०६०) १ समुत्सम क० ख० ग० घ००॥ २ यावत्यां जीवोऽवगाढस्तावस्याऽवगाहनया ऊर्ध्वमृजुकं गच्छति न वक्रम् , द्वितीयं च समयं न स्पृशति ॥ ३ पर्याप्तमात्रसंझिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तब्यापारश्च यन्मात्रः॥ तदसहयगुणविहीनं समये समये निरन्धानः सः । मनसः सर्वनिरोध करोत्यसययसमयः॥