________________
देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
यावत् । प्रतिषतंश्च तावत् प्रतिपतति यावत् प्रमत्तगुणस्थानम् । कश्चित्तु ततोऽप्यवस्तनं गुणद्विकं याति कोऽपि सासादनभावमपि । यः पुनर्मचक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति विशेषः । उत्कर्षतः बैंकस्मिन् भवे द्वौ बारावुपशमश्रेण प्रतिपद्यते । यश्च द्वौ बारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात् तस्मिन् मचे क्षापकश्रेण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीति । उक्तं च सप्ततिकाचूर्णौ
जो दुबे वारे उक्समसेडिं पडिबज्जइ तस्स नियमा तम्मि भवे खवगसेढी नत्थि, जो tafi उबसमसेढी पडिवज्जइ तस्स खबगसेढी चि हुज्ज चि ॥
er कार्मग्रन्थकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भत्र एकामेव श्रेणि प्रतिपद्यते, चदुक्तं कल्वमाप्ये
एवं अपरिवडिए, सम्मत्ते देवमणुयजम्मे । अनयरसेढिवज्जं, एगभवेणं च सजाई ॥ ( गा० १०७ )
सर्वाणि देशविस्त्यादीनि । अन्यत्राप्युक्तम्
मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततम् । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न || इति ।
११ । 'तथा क्षीणाः - अभावमापन्नः कषाया यस्य स क्षीणकषायः । तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यग्दृष्ट्या द्यप्रमत्तन्तेषु गुणस्थानेषु क्षपयितुमारभते, ततो मिध्यात्वं मिश्रं सम्यक्त्वम्, ततोऽप्रत्याख्यानावरणान् प्रत्याख्यानावरणान् कषायानष्टौ क्षपयितुमारभते, तेषु चार्धक्षपितेष्वेवातिविशुद्धिवशादन्तराल एवं स्त्यानर्द्धित्रिकं नरकद्विकं तिर्यद्विकम् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयः आतफ्म् उद्योतं स्थावरं सूक्ष्मं साधारणमिति प्रकृतिषोडशकं क्षपयति । तस्मिंश्व क्षीणे कषायाष्टकस्य क्षपितशेषं क्षपयति । ततो नपुंसकवेदं स्त्रीवेदं हास्या - दिषट्कं पुंवेदं संज्वलनं क्रोषं मानं मायां क्षपयति, एताश्च प्रकृतीरनिवृत्तिबादरसम्पराय गुणस्थाने धापयति, संज्वलन लोमं सूक्ष्मसम्परायगुणस्थान इति क्षपकश्रेणिः । स्थापना चेर्यम् । विरतस्तु क्षपकश्रेणिस्वरूयं खोपशशतकटीकायां निरूपितं तत एव परिभावनीयम् । तदेवमन्येष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः सम्भवति, कापि कियत्तामपि कषायाणां क्षीणस्वात्, अतस्तव्यवच्छेदार्थ वीतरागग्रहणम् । क्षीणकषाय वीतरागस्वं च केवलिनोऽप्यस्ति इति तावच्छेदार्थ उद्यस्थग्रहणम् । छद्मस्थग्रहणे च कृते सरामन्यवच्छेदार्थे वीतरामग्रहणम् ।
रानवासी छद्मश्च वीतरागच्छद्मस्थः । स चोपशान्तकषायोऽप्यस्ति इति तद्व्यवच्छेदार्थ क्षीणकवायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्वगुणस्थानम् १२ इति ।
१ यो द्वौ वारौ उपशमश्रेण प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेणिर्नास्ति, य एकवारं उपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिरपि भवेदिति ॥ २ एवम प्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु । अन्यतरविस् एमवेन च सर्वाणि ३ ततः क० ० ० ० ० ॥ ४ णाः क्षयमा ० ॥ ५० ० ०
#