________________
कण्डिका]
प्रथमकाण्डम् । भृद्भिः सन्नियोगार्थः । इच्छया जुहोतीति कुत इति चेत् 'येन कर्मणेर्सेदिति वचनात् ' येन कर्मणा ऋद्धिमिच्छेत्तत्र जयाञ्जुहोतीति वचनं भवति । अतश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कार्य इति ज्ञायते ।जैमिनिस्तु जयादीनामनारभ्याधीतानां येन कर्मणेर्सेत्तत्र जयाजुहुयादित्यादिभिवाक्यैरेव सामान्यतो लौकिकवैदिककाङ्गत्वे प्राप्ते जयादयस्तु वैदिकास्तेन यत्राहवनीयोऽस्ति तत्रैते स्युरिति सिद्धान्तितवान् । जयाहोमानां मन्त्रानाह 'चित्तञ्च..... 'वभूवस्वाहेति ।। मन्त्रार्थःचित्तं चेति प्रजापतिर्यथेन्द्राय जयान्प्रायच्छत् तथा चित्तादि च मह्यमपि प्रयच्छत्विति क्रियां विपरिणम्योत्तरत्र संवन्धः। तस्मै च सुहुतमस्तु । तत्र चित्तं ज्ञानाधारं हृदयं चित्तिस्तत्रत्या चेतना । आकूतं चाभिमतमाकूतिश्चाभिमानः । यद्वा चित्तं ज्ञानेन्द्रियं जातावेकवचनम् , चित्तिस्तद्देवता, आकृतं कर्मेन्द्रियम् आकूतिस्तद्देवता, विज्ञातं शिल्पादिज्ञानमपरोक्षं विज्ञातिस्तदेवता, मनः प्रसिद्धं शकरी: शक्कर्यस्तच्छक्तयः, दर्शपौर्णमासौ तद्देवते, बृहद्रथन्तरे सामनी तद्देवते वा । सर्वत्र प्रथममन्त्रोक्तवाक्यार्थः संवध्यते । प्रजापतिः परमेश्वरः, जयन्ति शत्रूनिति जयाः तान् जयान्मन्त्रानिन्द्राय प्रायच्छत् ददौ किमर्थम् वृष्णे अभिमतार्थवर्षणाय इन्द्रविशेषणं वा । ततः स इन्द्रः पृतनाजयेपु असुरसेनाविजयाख्यकर्मसु उग्रः प्रचण्डो वभूव । किंच ततस्तस्मै इन्द्राय विशः प्रजाः समनमन्त सम्यडः नेमुः । स इ इश्चार्थे स चेन्द्रः हव्यः हवनीयः इज्यः बभूव स्वाहा तस्मै सुहुतमस्तु । तथाच तैत्तिरीया श्रुति:- देवासुराः संयत्ता आसन् स इन्द्रः प्रजापतिमुपाधावत्स तस्मा एताजयान्प्रायच्छत्तानजुहोत्ततो देवा असुरानजयंस्तज्जयानां जयात्वमिति । अत्र प्रजापतिर्जयानित्येकेनापि जयालिडेन छत्रिन्यायेन त्रयोदशमन्त्रा जया इत्युच्यन्ते । इमानि शाखान्तरोपदिष्टानि देवतापदानि एपां प्रयोगकाले संप्रदानलक्षणेन संप्रयोगश्चित्ताय स्वाहेत्यादीति भर्तृयज्ञः नेति कर्कादयः । नमानि देवतापदानि किं तर्हि मन्त्राश्चैते तेच यथाऽऽनाता एव प्रयोक्तव्याः । अभ्यातानसंज्ञकान्मन्त्रानाह-अनिर्भू...""हूत्या स्वाहा । मन्त्रार्थः अग्निः प्रजापतिः भूतानां स्थावरादीनामधिपतिः ईशः स मा मामवतु पातु क अस्मिन्ब्रह्मणि अस्मिन्ब्रह्मकर्मणि होमादौ , पुनरस्मिन्क्षत्रे क्षत्रकर्मणि प्रजापालनादौ. पुनरस्यामाशिषि ब्राह्मणैः संपादितेष्टाशंसने, पुत्रादिसुखकामनायां वा कुत्र अस्यां कन्यायां किंभूतायां पुरोधायां पुरःस्थितायामस्मिन्कर्मणि विवाहे अस्यां देवहूत्यां देवताह्वाने देवतोदेशेन होमे वा स्वाहा सुहुतमस्तु । अयं च वाक्याथें उपरिष्टादपि सप्तदशसु संबध्यते शेषं स्पष्टम् । एतेऽष्टादश मन्त्रा अभ्यातानाः । अग्निभूतानामित्यादि-सुगन्नुपन्थामित्यन्ता द्वाविंतिरभ्याताना इति कर्ककारिकाकारौ। ' इति सर्वत्रानुषजति ' एतेषु मन्त्रेषु प्रतिमन्त्रं यथालिङ्गं यथावचनं समावत्वित्यादि देवहूत्यां स्वाहेत्यन्तं वाक्यैकदेशमनुवक्तव्यम् । तच्चास्माभिः प्रयोगलेखने प्रदर्शयितव्यम् । अग्नि"यं कृणोतु स्वाहेति' अग्निरेतु प्रथम इत्यादिचतुर्भिर्मन्त्रैश्चतस्र आज्याहुतीर्जुहोति । अग्निरैतु प्रथम इति प्रथमा, इमामग्निरिति द्वितीया, स्वस्ति न इति तृतीया, सुगन्नुपन्थामिति चतुर्थी । मन्त्रार्थः । अग्निः ऐतु आगच्छतु किंभूतः देवतानां यज्ञभुजां प्रथमः आद्यः प्रधानत्वात् । स चाग्निः असौ अस्याः कन्यायाः प्रजां भाविपुत्रादिरूपां मुञ्चतु मोचयतु कुतः मृत्युपाशात् । यद्वा मृत्युपाशात् अग्निः अस्यै कन्यायै प्रजां मुञ्चतु ददातु तच्च प्रजामोचनंराजा वरुणोऽनुमन्यताम् अनुजानातु । यथा येनानुज्ञानेन प्रकारेण वा इयं कन्या पौत्रं पुत्रभवं अघं दुःखं नरोदात् शोकं प्राप्य न रोदिष्यति कदाचिदपि अपत्यवियोगो मा भवतु इत्यर्थः ॥ १ ॥ इमां कन्यां गार्हपत्योऽग्नित्रायतां रक्षतु गार्हपत्याभियो भाव्यग्निः पालयतु । इमां पत्नीमग्निहोत्रिणीं कृत्वा रक्षतु । अस्यै अस्याः प्रजां दीर्घमायः निदष्ट बहुकालजीवनं नयतु प्रापयतु । इयं च अशून्योपस्था सफलप्रसवा अवन्ध्यतयेति यावत् । यद्वा नित्यं
१ मृत्युपाशानत्तीति मृत्युपाशात् । अग्नेर्विशेषणं प्रथमान्तम् ।