________________
कण्डिका ]
परिशिष्टम् ।
४०९
1
ददातु पृथिवीत्वा प्रतिगृह्णातु इत्याचार्यस्य प्रतिग्रहमन्त्रः । पाराशरीये । वस्त्रयुग्मानि विप्रेभ्यश्छत्रिका मुद्रिकाः शुभाः । दद्याद्विप्रेभ्यः संतोष्य छत्रोपानहमेव च । सुहेमपुरुपयुक्तां शय्यां दद्याच शक्तितः ॥ सुहेमपुरुषो लक्ष्मीनारायणप्रतिमा । आसनानि च शस्तानि भाजनानि निवेदयेत् । प्रसादयेद् द्विजान्भक्त्या इच्छन् पूर्तफलं नरः । कृताञ्जलिपुटो भूत्वा विप्राणामप्रतः स्थितः । ब्रूयाद्देवा भवन्तोऽत्र सर्वे विप्रवपुर्धराः। तदं यूयं तारयध्वं संसारार्णवतो द्विजाः । आगता मम पुण्येन पूर्तधर्मप्रसाधकाः । इति विप्रप्रार्थना । ततः सहस्रं विप्राणामथवाऽष्टशतं तथा । भोजयेच्च यथाशक्त्या पश्चाशद्वाऽथविंशतिमिति मात्स्यवचनम् । यद्वा गर्भाधानादिभिर्यज्ञैर्ब्राह्मणान् भोजयेद्दशेति परिशिष्टकारोक्तेः दशावरान् ब्राह्मणान् भोजयिष्ये इति संकल्पः । ततस्तानविलम्बेन भोजयेत् । दीनानाथेभ्यो भूयसीच दत्त्वा कर्म ईश्वरार्पणं कुर्यात् । कृतैतत्कर्म लक्ष्मीनारायणार्पितमस्तु । ततआचारप्राप्तं तिलकाशीर्वादादि। आरामप्रतिष्ठायां तु वृक्षाणां वस्त्रैरभावे सूत्रैर्वेष्टनम् । जलमातृकापूजास्थाने वनस्पतिभ्यो नम इति वृक्षेषु वनस्पतिपूजनम् । देवपितृमनुष्याः प्रीयन्तामित्यनेनैव पाक्षिक उत्सर्गः । कृतस्यारमप्रतिष्ठापनकर्मणः साङ्गतासिद्ध्यर्थमिति दक्षिणादानादौ प्रयोगः । गोर्भ्रमणं मध्ये | उत्तरतो निष्कासनम् । जलचरप्रक्षेपस्य जलाशयस्पर्शजपादेश्चाभावः । एवं देवालयप्रतिष्ठायां सूत्रादिना वेष्टनम् । आचारादुपरि ध्वजवन्धनम् । अमुकदेवायतनाय नम इति पूजनं च । कृतस्य देवायतनप्रतिष्ठाकर्मणः साङ्गतासिद्ध्यर्थमिति दक्षिणादानादौ प्रयोगः । चतुः पष्टिपदवास्तुपूजनमपीति विशेषः । अन्यत्सर्व पूर्ववत् । यजमानस्य स्वकर्तृत्वपक्षे तु आचार्यवरणाभावः । दक्षिणादानं ब्रह्मणे पूर्णपात्रादिस्थाने | यद्वा वैवाहिकवरदानवदुपद्रष्ट्रे । उपनयनपूर्वकवेदाध्यापकाचार्याय वा । ग्रहयज्ञस्य प्रधानेन सह समानतन्त्रता वा । तत्राज्यभागान्ते वरुणस्योत्तम्भनमिति कण्डिकया आज्याहुतिरेका । ततः समिद्धोमः । ततो दशर्चेन । ग्रहचरुहोमपूर्वको वरुणचरुहोम: । ततस्तिलहोमादि । एवमासादनादावपि क्रमो बोद्धव्यः । प्रहयज्ञाङ्गत्वेन मण्डपकरणपक्षे तु शतपदं वास्तु वलिदानमण्डप प्रतिष्ठादिकमप्यधिकम् । प्रासादप्रतिष्ठायां तु मण्डपाभावपक्षेऽपि नियमेन चतुःषष्टिपदो वास्तुरित्युक्तमित्यलं ग्रन्थगौरवेण ॥ ॥ * ॥ ॥
इति श्रीमदग्निचिद्दीक्षितविश्वामित्रात्मजदीक्षितकामदेवकृता गृह्यपरिशिष्टस्य षष्ठिकण्डिकायाः सभाष्यपद्धति समाप्ति पफाण ॥ 1 * 01 11
अथातः शौचविधिं व्याख्यास्यामो दूरं गत्वा दूरतरं गत्वा यज्ञोपवीत शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्तर्धान कृत्वोपविश्याहनीत्युत्तरतो निशायां दक्षिणत उभयोः संध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु नागे वृक्षमूले चतुष्पथे गवाङ्गोष्ठे देवब्राह्मणसंनिधौ दहनभूमिं भस्माच्छन्नं देशं फालकृष्टभूमिं च वर्जयित्वा मूत्रपुरीषे कुर्यात् । ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्धले पहरं विदध्यात् । लिङ्गे देया सकृन्मृ है त्रिवारं गुढ़े दशधा वामपाणावुभयोः सप्तवारं मृत्तिकां दद्यात् । करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां त्रिगुणं वनस्थानां चतुर्गुणं यतीनामिति ॥ यद्दिवा विहितं शौचं तद
५२