________________
कण्डिका ]
द्वितीयकाण्डम् |
३०१
यथाक्रमम् । स्पष्टार्थ प्रयोग उच्यते त्यागश्च । शुक्रज्योतिश्चेत्यारभ्य ऋतपाश्चात्य हा नमः इदं शुज्योतिषे चित्रज्योतिपे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपसेऽत्यह इसे च० । इहचान्यादृचेत्यादि सभरा नमः इदमीदृशे अन्यादृशे सदृशे प्रतिसदृशे मिताय संमिताय समरसे च० । ऋतत्यादि विधारय नमः इदमृताय सत्याय ध्रुवाय धरुणाय धत्रें विधत्रे विधारयाय च० । ऋतजिश्वेत्यारभ्य गणो नमः इदमृतजिते सत्यजिते सेनजिते सुषेणाय अन्तिमित्राय दूरे अमित्राय गणाय व० । ईदृक्षास इत्यारम्य यज्ञे अस्मिन्नमः इदमीदृक्षेभ्यः एतादृक्षेभ्यः सदृक्षेभ्यः प्रतिसहक्षेभ्यो मि तेभ्यः सम्मितेभ्यो सभरेभ्यः मरुद्धपश्च० । स्वतवांश्चेत्यादि उज्जेषी नमः इदं स्त्रतवसे प्रवासिने सांतप नाय गृहमेधिने क्रीडिने शाकिने उज्जेषिणे च० । उग्रश्चेन्यारभ्य विक्षिपः स्वाहा नमः मनसा । इदare भीमाय वान्ताय धुनये सासहतेऽभियुग्वने विक्षिपाय चेत्यपि मनसा । तत इन्द्रं दैवीरित्येतामृचं जपति यजमानः । ततो ब्राह्मणभोजनमिति ॥ 11 % 11 11 % 11
॥ ॐ ॥
( गदाधरः ) ' प्रौष्ठ यज्ञः ' इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रोष्ठपदी च भाद्रपदी पौर्णमासी तस्यामेतत्कर्मावसथ्येऽग्नौ भवति । ' पाय पांच ' पायसं पयसि पक्कं चरुमैन्द्रमिन्द्रदेवत्यं यथाविधि अपयित्वा अपूपांश्च चतुरः अपयित्वा । ऐन्द्रग्रहणात् इन्द्राय स्वाहेति होमो लभ्यते । अत्रापां क्षीरस्य च प्रणयनं कार्यम् । ' अपूपैः " : "भ्यश्च ' अग्नेः प्रतिदिशमपूपैः स्तीर्त्वा प्रदक्षिणं परिस्तीर्य आज्यभागानन्तरमिन्द्रायेत्यादिभिः स्वाहाकारान्तैः पञ्चमन्त्रैः प्रतिमन्त्रं पञ्चाज्याहुतीर्जुहोति । आ याहुत्यन्ते इन्द्रायस्वाहेति पायसेन होमः । ततः स्विष्टकृदादि । ' प्राश' 'चनात् ' संस्रवप्राशनान्ते मरुद्रो देवताभ्यो बलिं ददाति । ननु होमासंबन्धे कथमेषां देवतात्त्रं वलिकर्मार्हत्वं च । उच्यते । तादो मरुत इति श्रुतेः । अहुतमदन्तीत्यहुतादो मरुत इति श्रुतेः । अतएव वलिदानमेव तु होमः । तच्चावत्येषु पत्रेषु कार्यम् । कुतः यस्मान्मरुत अश्वत्थे तस्थुः स्थितवन्तः । अतएवाश्वत्थपत्राणां सदैव चाञ्चल्यम् । अश्वत्थस्येमानि आश्वत्थानि पर्णानि तेषु वलिं हरतीत्यर्थः । ' शुक्रमन्त्रम् ' यद्बलिहरणं तच्छुऋज्योतिरित्येवमादिभिः षड्भिर्मन्त्रैर्नमस्कारान्तैः प्रतिमन्त्रं कार्यम् । ' विमुश्रुतेः ' चकाराद्बलिहरणं विमुखेन उमश्चभीमश्चेत्यष्येतुप्रसिद्धेन मन्त्रेण मनसोञ्चारितेन । एतैर्मन्त्रैरिति कुतः । नामान्येषामेतानीति श्रुतेः । एषां मरुतामेतानि शुक्रज्योतिरित्यादीनि नामानि श्रूयन्ते । 'इन्द्र' 'पति' बलिहरणानन्तरमिन्द्रं दैवीरित्येतामृचं जपति । ' ततो नम् ' इति पञ्चदशी कण्डिका ॥ ॥ १५ ॥
•
अथ पदार्थक्रमः । प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् । ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । सक्षीरं प्रणयनम् । उपकल्पनीयानि । यवपिष्टं त्रीहिपिष्टं वा । सप्ताश्वत्थपत्राणि पोतकं कर्परमपूपार्थे, निरूप्याज्यं प्रणीताभ्यः पोतकेन क्षीरं गृहीत्वा चरुपात्रे कृत्वा तण्डुलप्रक्षेपः । प्रणीतोदकेन पिष्टसंयवनं लौकिकेनेति रेणुकः । आन्याधिश्रयणं ततञ्च - तुर्णामपूपानामधिश्रयणमुपयमनादानात्पूर्वमग्नेरपूपैस्स्तरणं पुरस्तात्प्रथमं प्रदक्षिणम् । आज्यभागान्ते पञ्चाज्याहुतयः । इन्द्राय स्वाहा । इन्द्राण्यै स्वाहा । अजायैकपदे स्वाहा । अहिर्बुध्न्याय स्वाहा । प्रौष्ठपदाभ्यः स्वहा । सुगमास्त्यागाः । ततः पायसेन इन्द्राय स्वाहा इदमिन्द्राय० । ततो नवाहुतयः स्विष्टकृष । संस्रवप्राशनम् । मार्जनम् । पवित्रप्रतिपत्तिः प्रणीताविमोको दक्षिणादानम् । प्राकसंस्थान्युदक्संस्थानि वा सप्ताश्वत्थपत्राणि कृत्वा तेषु मरुद्भयो वलिहरणं पायसशेषेणैव स्रुवेण शुक्रज्योतिरिति पभिरुग्रश्चेत्यनेन सप्तमेन च प्रतिमन्त्रम् । शुक्रज्योति० नमः । इदं शुक्रज्योति चित्रज्योतिषे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपसेऽत्य हसे च नमम ॥ १ ॥ ईदृचान्या