________________
३०० पारस्करगृह्यसूत्रम् ।
[पञ्चदशी पञ्च । अपूपैः स्तरणमग्नेः । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेनैकाहुतिहोमः । ततः स्विष्टकदादि । प्रागनान्ते मरुद्भयो बालि हरति । अहुतादो मरुत इति श्रुतेः । आश्वत्येपु पालशेपु । कुत एतत् । यतोऽश्वत्थे तस्थुरिति वचनात् । शुक्रज्योतिरित्येतैर्मन्त्रैर्नमस्कारान्तः प्रतिमन्त्रं विमुखेन च मनसा वलिहरणम् । विमुखश्च उग्रश्च भीमश्चेत्यध्येतृणां प्रसिद्धः । नामान्येपामेतानीति श्रुतेः । एषां मरुतामेतानि शुक्रज्योतिरित्यादीनि नामानि श्रूयन्ते । इन्द्रं देवीरिति अपति वलिहरणान्ते । ततो ब्राह्मणभोजनम् ॥ १५ ॥ ॥*॥ ॥* ॥ ॥॥ ॥ * ॥
(हरिहरः)- प्रौष्ट' 'यज्ञः प्रौप्टपदी भाद्रपदी प्रकरणान् पौर्णमासी । तस्यां इन्द्रयजनामधेयं कर्म भवति औपासनाग्नौ । 'पाय''पांश्च' पायसं पयसा सिद्धं चरुमैन्द्रमिन्द्रदेवत्यं अपयित्वा यथाविधि पक्त्वा अपूपांश्च अपयित्वा तांश्च चतुरः प्रतिदिशं संस्तरणार्थम् । ऐन्द्रमित्यनेन देवतातद्धितेन इन्द्रायस्वाहेति होमलक्षणा । उपरि होमस्य मन्त्रान्तरस्य चानुक्तत्वात् । अत्र पायसश्रपणोपदेशात् पयश्च प्रणीयते । अपू"श्चेति । अपूपैः प्रतिदिशमान स्तीत्वा परिस्तीर्य आज्यभागी हुत्वा इन्द्रायेत्यादिभिः स्वाहान्तः पञ्चभिर्मन्त्रैः प्रतिमन्त्रं पञ्चाज्याहुतीर्जुहोति । अत्रानुक्तोऽपि पायसेन इन्द्राय स्वाहेत्येकाहुतिहोमः । अन्यथा पायसश्रपणमदृष्टाथै स्यात् । 'प्राश"श्रुते! ततः स्विष्टकृदादिप्राशनान्ते मरुद्भय एकोनपञ्चाशत्संख्येभ्यो देवताभ्यो वलिं ददाति । ननु मरुतां देवतात्वे सति कथं होमसंवन्धरहितत्वं वलिदानाहनं च । शृणु । अहुतादो मरुत इति श्रुतेः । अहुतमदन्तीत्यहुतादः मरुतो देवा इति श्रुतेः वेदवचनात् । 'आश्व"नात् । मरुद्भयो वलिठन्हरतीत्युक्तं तस्याधिकरणमुच्यते । अश्वत्थस्य इमानि आश्वत्थानि तेपु पिप्पलोद्भवेपु पत्रेषु वलिं हरतीति शेषः । ननु वलिहरणं भूभी अन्यत्र दृश्यते इह कस्मादश्वत्थपत्रेष्विनि शङ्कते । आह मरुतः शुक्रज्योतिप्रभृतयो यस्मात् अश्वत्थे तस्थुः स्थितवन्त इति वचनात् श्रुतेः । 'शुक्र "श्रुतेः । मन्त्रापेक्षायामाह शुक्रज्योतिरित्येवमादिभिर्मन्ननमस्कारान्तैः प्रतिमन्त्रं विमुखेन च उग्रश्च भीमश्चेत्येवमादिना अध्येतृप्रसिद्धन मनसा मनोव्यापारेण वलिं हरतीति शेपः । कुत एभिमन्त्रैवलिहरणम् ? एषां मरुतामेतानि शुक्रज्योतिञ्च चित्रज्योतिश्चेत्येवमादीनि विक्षिप इत्यन्तानि नामानि इति श्रुतेः वेदवचनात् । ' इन्द्र "जपति' बलिहरणान्ते इन देवीरित्येतामृचं जपति । 'ततो "जनम्' इतिसूत्रार्थः ॥ ॥ अथ प्रयोगः । भाद्रपदपौर्णमास्यां प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक विधायावसध्यानौ इन्द्रयज्ञाख्यं कर्म कुर्यात् । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेपः । सक्षीरं प्रणयनं मूलदेशे पयः इतरत्र जलं प्रक्षिप्य प्रणयेत् । उपकल्पनीयानि । तण्डुलपिष्टं सप्ताश्वत्थपर्णानि । तत आज्यनिर्वापानन्तरं प्रणीताभ्यः क्षीरमुरिसच्य चरुपाने तण्डुलान्प्रक्षिप्य प्रणीतोदकेन पिष्टं संपूय चतुरोऽपूपान्निर्मायाज्यमधिश्रित्य तदुत्तरतश्चरं तदुत्तरतः कपरे चतुरोऽपूपानधिश्रयति । आसादनक्रमेणोद्वासनादि । तत उपयमनकुशादानात्पूर्वमपूरग्नेः पुरस्तात् दक्षिणतः पश्चिमत उत्तरतश्च एकैकेन परिस्तरणं कृत्वा आज्यभागान्ते पञ्चाज्याहुतीर्जुहोति । इन्द्राय स्वाहा इदमिन्द्राय० इन्द्राण्यै स्वाहा इदमिन्द्राण्यै० अजायैकपदे स्वाहा इदमजायैकपदे० अहिर्बुध्न्याय स्वाहा इदमहिर्बुध्न्याय० प्रौष्ठपदाभ्यः स्वाहा इदं प्रौष्ठपदाभ्यो० । ततः पायसेन इन्द्राय स्वाहेत्येकामाहुति हुत्वा इदमिन्द्रायेति त्यक्त्वा पायसेनैव स्विष्टकृद्धोमं विधाय महाव्याहृत्यादिहोमसंस्रवप्राशनदक्षिणादानानि कुर्यात् । अथाग्नेरुत्तरतः प्राक्संस्थानि प्रागपाणि सप्ताश्वत्थपत्राणि निधाय तेषु मरुत्यो वलीन् हरति पायसशेपं मुवेणादायादाय शुक्रज्योतिरित्येवमादिभिः पडूमिमन्त्रैर्नमस्कारान्तैरुनश्च भीमश्चेत्येतेनैव सप्तमेन च मनसोचारितेन च प्रतिमन्त्रं सप्तसु पत्रेषु