________________
कण्डिका
प्रथमकाण्डम् । भूताः साक्षिण्यः सर्वदेवताः । इमां कन्यां प्रदास्यामि पितणां तारणाय च इति मन्त्री पठित्वा स्वदक्षिणस्थभार्यादत्तपूर्वकल्पितजलधारां कन्यादक्षिणहस्तगृहीतवरदक्षिणकरे क्षिपेत् । अमुकगोत्रोऽमुकोऽहं मम समस्तेत्यादि प्रीतये इत्यन्तं पूर्ववदुच्चार्यामुकामुकप्रवरोपेतायामुकगोत्रायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकस्मै श्रीधररूपिणे वरायामुकप्रवरोपेताममुकगोत्राममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनानी कन्यां श्रीरूपिणी प्रजापतिदेवत्यां प्रजोत्पादनार्थ तुभ्यं संप्रददे इति वरहस्ते सकुशाक्षतजलं क्षिपेत् । प्रजापतिः प्रीयतामिति मनसा स्मरेत् । न मम वाच्यमिति प्रयोगरत्ने नेत्यपरे । वरः ॐ स्वस्तीत्युक्त्वा द्यौस्त्वेति प्रतिग्रहं करोति । ततो दाता गौरी कन्यामिमां विप्र यथाशक्ति विभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय । कन्ये ममानतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वदानान्मोक्षमाप्नुयाम् । मम वंशकुले जाता पालिता वत्सराष्टकम् । तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी । न्यूनवयस्कायां पालितावर्षसप्तकमित्याहः कार्यः । धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयम् । नातिचरामीति वरः । दाता देशकालौ स्मृत्वा कृतस्य कन्यादानस्य प्रतिष्ठासिद्धयर्थमिमां दक्षिणां तुभ्यमहं संप्रददे इति सजलं यथाशक्ति सुवर्ण दानदक्षिणात्वेन वरहस्ते दत्त्वा न ममेति वदेत् । ॐ स्वस्तीति वरः । ततो दाता जलभाजनभोजनभाजनगोमहिष्यश्वगजदासदासीभूवाहनालंकाररदि यथाविभवं संकल्पपूर्वकं वराय दद्यात् । अत्र कोऽदादिति कामस्तुतिपाठ इति हरिहरगङ्गाधरौ । वरो वधूं गृहीत्वा निष्कामति यदैषिमनसेति । असौस्थाने वधूनामादेशः । निष्क्रमणप्रभृति कश्चनपुरुपो दक्षिणस्कन्धे वारिपूर्ण कलशं गृहीत्वाऽग्नेरुत्तरतो दक्षिणतो वा वाग्यतस्तिष्ठेत् । ततः परस्परं समीक्षेथामित्याह । अन्योन्यं समीक्षणम् अघोरचक्षुरिति वरकर्तृके समीक्षणे मन्त्रपाठः । दम्पत्योरग्नेः प्रदक्षिणकरणम् । अत्र वा वासःपरिधानादिकर्म । तत: पश्चादग्नेस्तेजनी कटं वा दक्षिणपादेन प्रवृत्त्योपविशति वरः । वरदक्षिणतो वध्वा उपवेशनम् । ततो ब्रह्मोपवेशनादि चरुवयंमाज्यभागान्ते विशेषः पवित्रच्छेदनकुशादिवरान्तानामासादनम् । उपकल्पनीयानि शूर्प शमीपलाशमिश्रा लाजाः दृषत् लोहितमानडुहं चर्म कुमार्या भ्राता आचार्याय वरद्रव्यम् । आज्यभागान्ते आज्येनैव भूः स्वाहा मुवः स्वाहा स्वः स्वाहा ॥ त्वन्नो । स त्वन्नो०। अयाश्चाग्ने । येते शतं० । उदुत्तमम् । एतत्सर्वप्रायश्चित्तं हुत्वा राष्ट्रभृद्धोमः तत्र नान्वारम्भः । ऋतापाडतधामाग्निर्गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाद इदमृतासाहे । ऋतधाम्नेऽनये गन्धर्वाय न मम ॥ १ ॥ ऋतापाडतधामाग्निगन्धर्वस्तस्यौपधयोऽप्सरसो मुदोनाम ताभ्यः स्वाहा । इदमोषधिभ्योऽप्सरोभ्यो मुझ्यो न मम ॥ २ ॥ सह-हितो विश्वसामा सूर्यो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदं समाहिताय विश्वसाम्ने सूर्याय गन्धर्वाय न मम ।। ३ ।। साहितो विश्वसामा सूर्यों गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा । इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यो न मम ॥ ४ ॥ सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाटू । इदं सुषुम्णाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय न०॥ ५॥ सुपुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ताभ्यः स्वाहा । इदं नक्षत्रेभ्योऽप्सरोभ्यो भेकुरिभ्यो न मम ॥६॥ इपिरोविश्वव्यचा वातो गन्धर्वः स न इदं ब्रह्मक्षनं पातु तस्मै स्वाहा वाद । इदमिपिराय विश्वव्यचसे वाताय गन्धर्वाय न मम ॥७॥ इपिरो विश्वव्यचा वातो गन्धर्वस्तस्यापो अप्सरस ऊजों नाम ताभ्यः स्वाहा । इदमद्भ्योऽप्सरोभ्य ऊग्भ्यो न० ॥ ८॥ भुज्युः सुपर्णो यज्ञो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातुतस्मै स्वाहा वाट् । इदं भुज्यवे सुपर्णाय यज्ञाय गन्धर्वाय न मम ॥९॥ भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसस्तावा नाम ताभ्यः स्वाहा । इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यो न मम ॥ १०॥ प्रजापतिर्विश्वकर्मा मनोगन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा