________________
जैन तीर्थकरों का शासनभेद
एककज्जपवन्नाणं, विसेसे किं नु कारणं । धम्मे दुवि मेहावी ! कहं विप्पच न ते ? ||२४||
व्याख्या- 'धम्मेति' इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्त
७७
तो सिंबुवंतंतु, गोमो इरणमव्यवी । पणा समिक्ख धम्मं तत्तं तत्तविणिच्छयं ||२५||
व्याख्या -- ' बुवंतं तु त्ति' ब्रुवन्तमे वाऽनेनादरातिशयमाह, प्रज्ञाबुद्धिः समीक्ष्यते पश्यति, किं तदित्याह - धम्मं - तत्तंति' बिन्दोर्लोपे धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां जीवादानां विनिश्वयो यस्मात्तत्तथा, ग्रयं भावः न वाक्यश्रवरणमात्रादेवार्थ निर्णयः स्यात्किन्तु प्रज्ञावादेव ||२५|| ततश्च -
पुरिमा उज्जुजडा उ, वक्कजडा य पच्छिमा ।
मज्झिमा उज्जुपराउ, ते धम्मे दुहा कए ||२६||
व्याख्या- 'पुरिमेति पूर्वे प्रथमजिनमुनयः ऋजवश्च प्राजलतया जडाश्च दुष्प्रजापतया ऋजुजडा:, 'तु' इति यम्माद्धेतोः वक्राश्च वक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पः विवक्षितार्थावगमाक्षमन्वादकजडाः च समुच्चये, पश्चिमाः पश्चिमजिनतनयाः । मध्यमास्तु मध्यमार्हतां माधवः ऋजवरच ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञा: । तेन हेतुना धर्माद्विधा कृतः । एककार्य प्रपन्नत्वेपि इति प्रक्रमः ||२६|| यदि नाम पूर्वादिमुनीनामीदृशत्वं तथापि कथमेतदुः विघ्यमित्याह
पुरिमाणं दुव्विसोझो उ, चरिमाणं दुरगुपाल । कप्पो मज्झिमाणं तु, सुविसोको सुपाल
||२७||
व्याख्या- -पूर्वेषां दुःखेन विशोध्यो निर्मलता नेतु ं शक्यो दुविशोध्यः, कल्पइति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमारणा अपि न तद्वाक्यं सम्यगव - बोद्ध प्रभवन्तीति तु पूर्ती । चरमागां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालः कल्पः साध्वाचारः । ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु विशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पालयन्ति च अतस्ते चतुर्यामोक्तावपि