________________
दशवैकालिके प्रथमाध्ययनम् ।
•
1
प्रय थार्थः । उक्तो द्वितीयोऽवयवः । अधुना तृतीय उच्यते । तत्र ॥ सुरपूि देऊ, धम्मंहाणे हिया उ जं परमे ॥ हे विजत्ती निरुवहि- जियाण अवदे य जियंति ॥ १४४ ॥ व्याख्या ॥ सुरा देवास्तैः पूजितः सुरपूजितः । सुरग्रहणमिन्द्राद्युपलक्षणम् । इतिशब्द उपदर्शने । कोऽयं हेतुः । पूर्ववत् । हेत्वर्थसूचकं चेदं वाक्यम् । हेतुः सुरेन्द्रादिपूजितत्वादिति इष्टव्यः । यस्यैव सिद्धतां दर्शयति । धर्मः पूर्ववत् । तिष्ठत्यस्मिन्निति स्थानम् । धर्मश्चासौ स्थानं च धर्मस्थानम् | स्थानमालयः । तस्मिन् स्थिताः । तुरयमेवकारार्थः । स चावधारणे । अयं चोपरिष्टात् क्रियया सह योदयते । यद्यस्मात् । किंनूते धर्मस्थाने | परमे प्रधाने । किम् | सुरेन्द्रादिभिः पूज्यन्त एवेति वा क्यशेषः । इति तृतीयोऽवयवः । अधुना चतुर्थ उच्यते । हेतु विनक्तिरियम् । हेतु विषयविभागकथनम् । अथक एते धर्मस्थाने स्थिता इत्यत्राह । निरुपधयः । उपधि
द्म मायेत्यनर्थान्तरम् । अयं च क्रोधाद्युपलक्षणम् । ततश्च निर्गता उपध्यादयः सर्व एव कषायां येज्यस्ते निरुपधयो निष्कषाया जीवानां पृथ्वी कायादीनामवधेनापीडया चशब्दात्तपश्चरणादिना च हेतुभूतेन जीवन्ति प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिता नान्य इति गाथार्थः । उक्तश्चतुर्थोऽवयवः । अधुना पञ्चममजिधित्सुराह ॥ जिवयण पडुडे वि हु, ससुराईए अधम्मरुणो वि ॥ मंगलबुद्धी इ. जो, पण आयविवरको ॥ १४५ ॥ व्याख्या ॥ इह विपक्षः पञ्चम इत्युक्तम् । स चायं प्रतिज्ञाविजत्तयोरिति । जिनास्तीर्थकराः । तेषां वचनमागमलक्षणं तस्मिन् प्रद्विष्टा प्रीता इति समासस्तान् । अपिशब्दादप्रद्विष्टानपि । हु इत्ययं निपातोऽवधारणार्थः । अस्थानप्रयुक्तश्च । स्थानं च दर्शयिष्यामः । श्वशुरादीन् । श्वशुरो लोकप्रसिद्धः । यादिशब्दा पित्रादिपरिग्रहः । न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान् । यपिशब्दाद्धर्मरुचीन् । किम् । मङ्गलबुद्ध्या मङ्गलप्रधानया धिया मङ्गलबुद्ध्यैव नामङ्गलबुद्ध्येत्येवकारोऽवधारणार्थः । किम् । जनो लोकः प्रकर्षेण नमति प्रणमति । याययविपक्ष इति । अत्राद्यद्वयं प्रतिज्ञा तबुद्धिश्व तस्य विपक्षः साध्या दिविपर्यय इति श्रावयविपदः । तत्राधर्मरुचीनपि मङ्गलबुझ्या जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह । तेषामधर्माव्यतिरेका जिनवचनप्रद्विष्टानपीत्यनेन तु तबुद्धेस्तत्रापि हेतुप्रयोगप्रवृत्त्या धर्म सिद्धेरिति गाथार्थः ॥ विश्ययस्स विवरको, सुरेहिं पुद्यंति जलजाई वि ॥ बुद्धा वि. सुरनया, बुच्चंते पायपडिवरको ॥ १४६ ॥ व्याख्या ॥ द्वयोः पूरणं द्वितीयं द्वितीयं च तद्दयं च द्वितीयद्वयं हेतुस्तबुद्धिः । इदं च प्रागुक्तद्वयापेक्षया द्वितीयमुच्यते । तस्यायं विपक्षः । इह सुरैः पूज्यन्ते यज्ञया जिनोऽपीति । इयमत्र जावना । यज्ञयाजिनो हि मङ्गलरूपा न जवन्त्यथ च सुरैः पूज्यन्ते । ततश्च सुरपूजितत्वमका