________________
दशवैकालिके प्रथमाध्ययनम्। . एयधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थ मिति । तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिछमेव।मरश्चतुरिन्द्रियविशेषः। किम्।पिबति मर्यादया पिवत्यापिबति।कम्। रस्यत इति रसस्तं निर्यासं मकरन्दमित्यर्थः। एष दृष्टान्तः।अयं च तदेशोदाहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पर्शकनियुक्तौदर्शयिष्यति।उक्तं च।सूत्रस्पर्श त्वियमन्येति। अधुना दृष्टान्त विशुछिमाह । नच नैव पुष्पं प्रानिरूपितस्वरूपं कामयति पीडयति। स च चमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः । अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाह ॥ जह नमरोत्ति य एवं, दितो होश आहरणदेसे ॥ चंदमुहिदारिगेयं, सोमत्तवहारणं ण सेसं ॥ १० ॥ व्याख्या ॥ यथा चमर इति चात्र प्रमाणे दृष्टान्तो नवत्युदाहरणदेशमधिकृत्य । यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते । न शेषं कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः॥एवं नमराहरणे, अणियय वित्तित्तणं न सेसाणं ॥ गहणं दिसूतविसुकि, सुत्ते जणिया श्मा चन्ना ॥११॥ व्याख्या ॥ एवं जमरोदाहरणे अनियतवृत्तित्वं गृह्यत इति शेषः। न शेषाणामविरत्यादीनां चमरधर्माणां ग्रहणं दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे नणिता श्यं चान्या सूत्रस्पर्श निर्युक्ताविति गाथार्थः ॥ एक य नणिय कोई, समणाणं कीरए सुविहियाणं । पागोवजीविणो त्ति य, लिप्पंतारंजदोसेण ॥१०॥ ॥ व्याख्या ॥ अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा श्रमणाणां क्रियते सुविहितानामिति। एतदुक्तं नवति। यदिदं पाकनिर्वर्तनं गृहिनिः क्रियते। इदं पुण्योपादानसंकस्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां । गृहन्ति च ते ततो निदामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते आरम्नदोषेणाहारकरण क्रियाफलेनेत्यर्थः। तथा च लौकिका अप्याहुः ॥ क्रयेण क्रायको हन्ति, उपजोगेन खादकः ॥ घातको वधचित्तेन इत्येष त्रिविधो वधः॥इति गाथार्थः । सांप्रतमेतत्परिहरणाय गुरुराह ॥ वासश्न तणस्स कए, न तणं वहश्कए मयकुलाणं॥नय रुरका सयसाला, फुवंति कए महुयराणं ॥ १३ ॥ व्याख्या ॥ वर्षति न तृणस्य कृते न तृणार्थ मित्यर्थः। तथा न तृणं वर्धते कृते मृगकुलानामर्थाय । तथा न च वृदाः शतशाखाः पुष्प्यन्ति कृतेऽर्थाय मधुकराणामेवं गृहिणोऽपि न साध्वर्थं पार्क निर्वर्तयन्तीत्यतिप्राय इति गाथार्थः । अत्र पुनरप्याह ॥ अग्गिम्मि हवी इय, आश्चो तेण पीणि संतो॥वरिस पयाहियाए, तेणोसहिउँ परोहंति ॥ १०४ ॥ व्याख्या॥ इह यउक्तं वर्षति न तृणार्थमित्यादि । तदसाधु । यस्मादग्नौ हविडूयते । आदित्यस्तेन हविषा घृतेन प्रीणितः सन्वर्षति । किमर्थम्। प्रजाहितार्थ लोकहिताय। तेन वर्षितेन। किम्।ओषध्यः प्ररोहन्त्युजवन्ति। तथाचोक्तम् ॥ अन्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते ॥आदित्याजायते वृष्टिकृष्टेरन्नं