________________
दशवैकालिके प्रथमाध्ययनम् ।
५७ प्रतिज्ञा।तथा देवा अपि।अपिशब्दासिझविद्याधरनरपतिपरिग्रहः। लोकपूज्या लोकपूजनीयाः प्रणमन्ति नमस्कुर्वन्ति।कम्।सुधर्माणं शोजनधर्मव्यवस्थितमित्ययं हेत्वर्थसूचकत्वा तुरिति गाथार्थः॥ दिहंतो अरहंता,अणगारा य बहवो उ जिणसीसा॥ वत्तणुवत्ते नवश्,जं नरवश्णो वि पणमंति ॥एव्याख्या ॥ दृष्टान्तः प्राग्निरूपितशब्दार्थः। स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तथानगाराश्च बहव एव जिनशिष्या इति। न गन्तीत्यगा वृक्षास्तैः कृतमगारं गृहं तयेषां विद्यत इति अर्शआदेराकृतिगणत्वादच्प्रत्ययः। अगारा गृहस्थाः न अगारा अनगाराश्चशब्दः समुच्चयार्थः। तुरेवकारार्थस्ततश्च बहव एव नाल्पा रागादिजेतृत्वाजिनास्तविष्यास्तहिनेया गौतमादयः। आहाअर्हदादीनां परोक्षत्वादृष्टान्तत्वमेवायुक्तम्।कथं चैतहिनिश्चीयते। यथा ते देवादिपूजिता श्त्युच्यते । यत्तावमुक्तं परोदत्वादिति । तदुष्टम्।सूत्रस्य त्रिकालगोचरार्थत्वात्कदाचित्प्रत्यदत्वादेवादिपूजिता इति चैतहिनिश्चयायाह । वृत्तमतिकान्तमनुवर्तमानेन सांप्रतकालनाविना ज्ञायते । कथमित्यत आह । यद्यस्मान्नरपतयोऽपि राजानोऽपि प्रणमन्तीदानीमपि जावसाधु ज्ञानादिगुणयुक्तमिति गम्यते।अनेन गुणानां पूज्यत्वमावेदितं नवतीति गाथार्थः॥उवसंहारो देवा,जह तह राया विपणम सुधम्मं ॥ तम्हा धम्मो मंगल-मुकिक मिश्अ निगमंति ॥१॥ व्याख्या ॥ उपसंहार उपनयः। स चायम्। देवा यथा तीर्थकरादींस्तथा राजाप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति।यस्मादेवं तस्माद्देवादिपूजितत्वाधर्मो मङ्गलमुत्कृष्टमिति च निगमनम्। प्रतिझाहेत्वोः पुनर्वचनं निगमनमिति गाथार्थः॥१॥ उक्तं पञ्चावयवमेतदनिधानात्वर्थाधिकारोऽपि धर्मप्रशंसा । सांप्रतं. दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति । इह च दशावयवाः प्रतिज्ञादय एव प्रतिज्ञादिशुफिसहिता नवन्ति । अवयवत्वं च तबुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञादीनामिव नावनीयमित्यत्र बहु वक्तव्यम् । तर्नु नोच्यते गमनिकामात्रत्वात् प्रारम्जस्येति । सांप्रतमधिकृतदशावयवप्रतिपादनायाह ॥ बिश्यपन्ना जिणसा-सणंमि साहेति साहवो धम्मं ॥ हेऊ जम्हा सब्ना-विएसु हिंसा सुजयंति ॥ ए॥ व्याख्या ॥ द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया प्रतिज्ञा पूर्ववत् । द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा ।सा चेयम्। जिनशासने जिनप्रवचने। किम्। साधयंति निष्पादयन्ति । साधवःप्रव्रजिताः धर्म प्रानिरूपितशब्दार्थम् । इह च साधव इति धर्मिनिर्देशः। शेषस्तु साध्यधर्म इत्ययं प्रतिझानिर्देशः । हेतुनिर्देशमाह । हेतुर्यस्मात्सानाविकेषु पारमार्थिकेषु निरुपचरितेष्वथेष्वित्यर्थः । अहिंसादिष्वादिशब्दान्मृषावादादिविरतिपरिग्रहः । अन्ये तु व्याचदते, सनाविएहिंति । सजावेन निरुपचरितसकलपुःखदयायैवेत्यर्थः। यतन्ते प्रयत्नं कुर्वन्ति