________________
१२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग ४३ मा.
धम्मो मंगलमु कि, हिंसा संजमो तवो ॥ देवा वि तं नमसंति, जस्स धम्मे सया मणो ॥ १ ॥ तत्रास्खलित पदोच्चारणं संहिता । सा पाठ सिद्धैव । अधुना पदानि । धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः श्रपि तं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र “धृञ् धारणे” इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्टान्तस्येदं रूपमुत्कृष्ट मिति । तथा "तृहि हिसि हिंसायाम्" इत्यस्य " इदितो नुम् धातोः” इति नुमि कृते रूपधिकारे टान्तस्य नञ्पूर्वस्येदं रूपं यडुताहिंसेति । तथा " यमु उपरमें" इत्यस्य धातोः संपूर्वस्याच्प्रत्ययान्तस्य संयम इति रूपं जवति । तथा " तप संतापे" इत्यस्य धातोर सुन्प्रत्ययान्तस्य तप इति । तथा " दिवु क्रीडा विजिगीषाव्यवहारद्युतिस्तु तिखकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति जवति । श्रपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति नवति । तथा नमसित्यस्य प्रातिपदिकस्य " नमो वरिवश्चित्रङः क्यच्" इति क्यजन्तस्य लट् क्रियान्तादेशस्ततश्च नमस्यन्तीति नवति । तथा यदिति सर्वनाम्नः षष्ठयन्तस्य यस्येति नवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले । " सर्वैकान्यकिंयत्तदः काले दा" इति दाप्रत्ययः । " सर्वस्य सोऽन्यतरस्यां दि" इति स श्रादेशः । सदा । तथा " मन ज्ञाने” इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन इति जवति । इति पदानि । सांप्रतं पदार्थ उच्यते । तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः । तथा चोक्तम् " ॥ दुर्गतिप्रसृतान् जीवान् यस्माद्धारयते ततः ॥ धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥ " मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत् । उत्कृष्टं प्रधानम् । न हिंसा श्रहिंसा प्राणातिपात विरतिरित्यर्थः ः । संयम नवद्वारोपरमः । तापयन्त्यनेकजवोपात्तमष्टप्रकारं कर्मेति तपोऽनशनादि । दीव्यन्तीति देवाः क्रीडन्तीत्या दिनावार्थः । अपिः संभावने । देवा
पि मनुष्यास्तु सुतरां तमित्येवंविशिष्टं जीवं नमस्यन्तीति प्रकटार्थम् । यस्य जीवस् । किम् । धर्मे प्रागनिहितस्वरूपे सदा सर्वकालं मन इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासनाक्त्वे नेद निबन्धनाभावान्न प्रदर्शित इति । चालनाप्रत्यवस्थाने तु प्रमाण चिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः । प्रवृत्तिः पुनस्तयो: मुनोपायेनेति प्रदर्शयन्नाह ॥ कछ पुछइ सीसो, कहिं वि पुछा कहति श्रायरिया || सीसा तुहिया, विपुलतरागं तु पुछाए ॥ ३८ ॥ व्याख्या ॥ क्वचित्किंचिदनवगच्छन् पृष्वति शिष्यः कथमेतदितीयमेव चालना, गुरुकथनं प्रत्यवस्थानमिवमनयोः प्रवृत्तिः । तथा कचिदष्पृष्टा एवसन्तः पूर्वपक्षमाशङ्कय किंचित्कथयन्त्याचार्याः । तत्प्रत्यवस्थानमिति गम्यते । किमर्थं कथयन्त्यत श्राह । शिष्याणामेव हितार्थम् । तुशब्द एवकारार्थः । .