________________
दशवकालिके चतुर्थाध्ययनम् ।
२६ए के) अन्यत्र शस्त्रपरिणतात् एटले शस्त्रपरिणत वनस्पति वर्जीने शेष सर्व वनस्पति जे बे, ते सचित्त .॥
(दीपिका) अथ षड्जीवनिकायमाह। तद्यथेति उदाहरणे । पृथिवी काठिन्यलक्षणा प्रतीता । सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः (१)। आपो जवाः प्रतीता एव । ता एव कायः शरीरं येषां तेऽप्रकायाः। अप्काया एव अप्कायिकाः (२)। तेज उष्णस्पर्शलदणं प्रतीतम् । तदेव कायः शरीरं येषां ते तेजःकायाः तेजःकाया एव तेजःकायिकाः (३) । वायुश्चलनधर्मा प्रतीत एव। स एव कायःशरीरं येषां ते वायुकायाः वायुकायाएव वायुकायिकाः(१)।वनस्पतिलतादिरूपःप्रतीतः । स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकाः (५)। एवं त्रसनशीलाः त्रसाः प्रतीता एव । त एव कायाः शरीराणि येषां ते त्रसकायाः त्रसकाया एव त्रसकायिकाः (६)।श्ह च सर्वनूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामनिधानम् । विप्रतिपत्तिनिरासार्थं पुनराह । पुढवी चित्तमंतमकाया। पृथिवी चित्तं च जीवलक्षणं तदस्या अस्तीति चित्तवती सजीवा इत्यर्थः। पागन्तरं वा पुढवीचित्तमत्तमरकाया । अत्र मात्रशब्दः स्तोकवाची । यथासर्षपत्रिनागमात्रम् । पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः। तथाच प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्जियाणां तदधिकं हीन्द्रियादीनामिति । आख्याताः सर्वझेन कथिताः। किंविशिष्टाः । पृथिवी अनेकजीवा, अनेके जीवा यस्यां सा अनेकजीवा न पुनरेकजीवा । यथा वैदिकानां पृथ्वी देवता इत्येवमादिवचनप्रामाण्यादिति । तथा अनेकजीवापि कैश्चित् एकनूतात्मापेक्षया मन्यते । यदाहुरेके ॥ एक एव हि नूतात्मा नूते जूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥ अत एवाह । किंजूता पृथिवी । पुढोसत्ता । पृथक् सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्वा। अङ्गलस्य असंख्येयनागमात्रावगाहनैरनकैः पार्थिवजीवैः समाश्रितेतिनावः । आह । यद्येवं जीवपिएकरूपा पृथिवी तदा तस्यामुच्चारादिकरणेन नियमतस्तन्मरणात् अहिंसाया अनुत्पत्तिः स्यात् । तथा च सति साधुधर्मस्य असंचवः स्यात् । अतोऽत्राह । अन्यत्र शस्त्रपरिणतायाःशस्त्रपरिणतां पृथिवीं विहाय अन्या पृथिवी चित्तवतीयाख्याता इ. त्यर्थः । पृथिव्याः शस्त्रं विधा । खकायशस्त्रं (१) परकायशस्त्रं (२) तङनयशस्त्रं च (३)। तत्र स्वकीयशस्त्रं यथा कृष्णमृद् नीलादिमृदः शस्त्रम् । एवं गन्धरसस्पर्शसंन्नेदेऽपि शस्त्रयोजना कार्या (२)।परकायशस्त्रं यथा अप्तेजःप्रभृतीनां पृथिवी अथवा पृथिव्या यतेजःप्रभृतयः (२)। तनयं यथा कृष्णमृद् उदकस्य पांडुमृदश्च परस्परस्पर्शगन्धादिनिः।