________________
टिप्पणी समलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः। ७१ परं कदा तेषां (१) समत्रधानमिति सन्देहः ।
दीधितिः । प्रतिक्षेपकम् । प्रवृत्यन्यथानुपपच्या बीजत्वेन सामर्थ्यसिद्धौ न तादृशनियमसिद्धिरित्याशयेन पृच्छति । कुशलेति । इति प्राहुः ॥ दीधितिटिप्पणी ।
न साहशनियमसिद्धिः न समर्थस्येत्यादिक्षणिकत्वसाधक नियम सिद्धिः । कदा तेषां समबधान (२) मिति सन्देहफलप्रश्नलिखनम्, न तु सन्देहाकारस्य । सन्देहाकारस्तु इदानीं तदानीं वा समवधान मिति बोध्यः ॥
कल्पलता ।
नन्वेवं स्वभावद्वयस्थितावपि न स्थैर्य, यतः कुर्वे द्रूपस्यैव सहकारिसमवधान (म ) तद्रूपस्यैव तद्विरह इति क्षणिकत्वेप्युपपद्यत ( ३ ) इत्यभिप्रेत्याह । तथापीति । कर्तुरेवेति । कुर्वद्रूपत्वजातिमत एवे ( ४ ) स्पथे । अकुर्वदपि बीजत्वालिङ्गितं समर्थमेवेत्येकस्यैव सहकारिलाभालाभाभ्यां करणाकरणे इति स्थैर्यमेवेस्य (५)भिप्रेत्य पृच्छति । कुशूलस्थेति । अङ्कुरा थिं (६) प्रवृत्यन्यथानुपपत्यैव कुशलस्थस्यापि साम
मित्याह । न चेदिति । तदर्थिप्रवृत्तेरन्यथोपपत्तिमाह । परम्परयेति । असमर्थमपि कुशलस्थं समर्थ जनयिष्यति, शिलाशकलं तु न तथेति विशेष इत्यर्थः । अस्त्येवेति । तदर्थिप्रवृत्तिरित्यनुषङ्गः । यद्वा
(१) तेषां सहकारिणा पाठः । (३) त एवं - पुण० पु० पा० । (५) मेवा - पुण० पु० पा० ।
( २ ) मूलस्थामिदं प्रतीकम् ।
( ४ ) इवे - काल० मु० पु० पा० । (६) रादि -- कलि० मु० पु० पा० ।