________________
अस्मत स्वविवेकः
चेत, कदा पुनः परम्परयापि तथाभूतं करिष्यतीति (१) ।
स पुनः किमाकारः । किं
तत्र (२) सन्देह इति चेत्, सहकारिषु ( ३ ) समत्रहितेष्वपि करिष्यति न वेति, उता ( ४ ) समवहितेष्वपि (तेषु) करिष्यति न वेति (५), अथ यदा सहकारिसमवधानं तदैव करिष्यत्येव ( ६ )
दीधितिः ।
७०
सहकारिविरहादकरणमित्यायातमित्याशयेन पृच्छति । कदे - त्यादि । केचित्तु तज्जातीयानां सहकारिलाभालाभयोः करणाकरणेन स्थैर्यसाधके, क्षणिकत्वेप्युपपन्नत्वात् एकस्यैव तु से नाद्यापि सिद्धे, प्रत्यभिज्ञानं च व्यभिचारिजातीयमसिद्धममा (७). भावं न साधकमतः कथं स्थैर्यसिद्धिरित्या (८) शयेनाह । तथापीति । असमर्थेत्यादिनियम ( ९ ) द्वयं समर्थस्यापि सहकारि ( णा) वैकल्यादकृतवतः पश्चात् साकल्ये सति करणस्य
दीधितिटिप्पणी ।
पूर्वोक्तभावतोपि निर्दुष्टमाह । केचिदिति । अत एव प्राहुरिति वक्ष्यते, एकस्यां व्यक्त करणाकरणासिद्धेः । क्षणिकत्वपीति । क्षणिकरवे कस्यापि बीजजातीयस्य तद्वत्वं कस्यापि तदभाववत्त्वमविरुद्ध. मित्यर्थः । ते करणाकरणे । समर्थस्यापीति । अपिनाऽसमर्थस्यापीति सूचितम् तदैव नियमद्वयसार्थक्यात् । पूर्वे तु एतन्नियमद्वयं समर्थस्य क्षेपायोगादित्युपष्टम्भेन योजितमित्यतोपि मतयोर्भेदः ।
,
(१) करिष्यति - पाठः । (२) अत्र - पुण० पु० पा० । (३) कारि - पाठः ।
(४) उत तद - पुण० पु० पा० । (५) न वः पाठः । (६) करोत्येव - पाठ: ।
(७) प्रमाण पुग० पु० पा०-1 (९) तथापीति । नियम- पाठः ।
( ८ ) स्थैर्यमित्या - कलि० मु० पु० पा० ।