________________
६४
आत्मतत्वविवेकः
त्स (१) मवधानेऽपि न कुर्यात् तज्जातीयमकरणमेव स्यात (२), समवधानासमवधानयोरुभयो (३)रप्यकरणात् । एवं (४) तत्समवधानविरहेपि यदि (५) कुर्यात् सहकारिणो (६) न कारणं स्युः, तानन्तरेणापि करणात् । तथा चानन्यथासिद्धान्वयव्यतिरेकत्रताम (प्य) कारणत्वे कार्यस्याकस्मिकत्वप्रसङ्गः(७) । तथा च कादाचित्क -
दीधितिः । म्वरूपतया पृथगुपदर्शितः । तज्जातीयम् तद्धर्मावच्छिन्नम् । अ कारणम् (८) अस्त्ररूपयोग्यं तथात्वं च प्रामाणिकमिति भावः । एवमिति । सहकारिणो यदि तत्कार्यकारणापेक्षणीया न स्युः तत्कार्यकारणानि न स्युरित्यर्थः । तेन न वैयधिकरण्यम् ( ९ ) । तथा चेति । तुल्यन्यायतया सर्वेषामेवाकारणत्वादिति भावः ।
दीधितिटिप्पणी |
तज्जातीयमितरधर्मावच्छेदेनास्वरूप योग्य मेवेत्यत आह । तद्धर्मेति । तथा च तद्धर्मावच्छेदेन स्वरूपयोग्यत्वाभावः साध्य इत्यर्थः । ननु सहकारिणामकारणत्वेपि सहकारितानिरूपकदण्डादेः कारणत्वं कथं बाधितमत आह । तुल्येति । दण्डादेरपि चक्रादिसहकारितया सहकारिणामकारणत्वे दण्डस्याकारणत्वमेव स्यादित्यर्थः । मूले
( १ ) यत् सहकारिसमवधानेऽप्यकुर्वाणं यदि तत्सहकारिस- पाठः । (२) तज्जतीयमकारणं स्यात् पाठः ।
(३) समवधानयो।-पाठः ।
( ४ ) एवं यदि - पाठः ।
(५) विरहे - पाठः । (६) गोपि - पुण० पु० पा० । (७) कार्यस्याकारणकत्वप्रसङ्गः पाठः । ( ८ ) अकरणम् - कलि० सु० पु० पा० । (९) तेन वैयाधिकरण्यं न-पाठः ।