________________
६२
आत्मतत्वविवेकः
कल्पलता ।
हीति । 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति यत इति भावः । अक्षेपकारित्वस्वाभाव्यं सामर्थ्यमालस्य यदि समर्थ स्यात् कुर्यादिति प्रसङ्गस्त्वयावतारितः, तत्र च ( १ ) तत्स्वाभाव्य सन्देहादपि सन्दिग्धासिद्धिदूषणमुक्तम्, एतावतैव परोक्तसाधने दूषणाभिधानस्य कथापूर्वरूपस्य पर्यवसानात् तव पराजय इत्याह । दूषणाभिधानेति ।
उत्तरपक्षावसरे तु सोपि न दुर्वचः । तथाहि, करणं प्रत्यविलम्ब इति कोऽर्थः किमुत्पत्तेरनन्तरमेव करणं, सहकारिसमवधानानन्तरमेव वा । विलम्ब इत्यपि कोऽर्थः, किं यावन्न सहकारिसमवधानं तावद
दीधितिः ।
उत्तरः पक्षः प्रतीकम (२), स्वपक्षस्य प्रकृते स्थैर्यस्य स्थापनम् । उत्पत्तेरनन्तरं करणम् (३) उत्पश्यनन्तरकालीन कार्यकारित्वम्, उत्पत्तिकाले कारित्वमिति यावत् । एवमग्रेपि नेयम् ।
दीधितिटिप्पणी ।
ननु जल्पस्य द्वितीयदलरक्षार्थमेव समर्थनं कार्यमित्यत आह । उत्तरेति । एवं पक्ष इत्यस्यार्थः, प्रतीकम् । स्वोत्पत्तेरनन्तरं स्वस्यैवाभाषेन कथं तदानीं जननानुकूलव्यापाररूपकरणमत आह । उ. त्पत्तेरिति । प्रथमस्य कुत्रचित्प्रमाणमाशङ्क्य समाधते । कस्यचि
(१) तदत्र - काल० मु० पु० पा० ।
(२) उत्तरपक्ष:- कलि० मु० पु० पा० । अयमेव टिप्पणीकत्सम्मतः । • (३) रनन्तरकरणम् - कलि० मु० पुं० पा० ।