________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्य टीकाद्वयविभूषितः । ६१ स्यादेतत् । एतावतापि भावस्य कः स्वभावः समर्थितो (भवति) न हि क्षेपाक्षेपाभ्यामन्यः प्रकारोऽस्तीति चेन्न, दूषणाभिधानसमये ( १ ) निश्चयाभावेनैव सन्दिग्वासिद्धिनिर्वाहे कथापूर्वरूप पर्यवसानात् ।
दीधितिः ।
अक्षेपकारित्वान्यथानुपपच्या क्षणिकत्वं सिषाधयिषुर्भावस्वाभाव्यं (२) पृच्छति । स्यादेतदिति । कथायाः जल्पस्य । पूर्वं रूपम (३) प्रतीकम, परपक्षखण्डनम् ॥
दीधितिटिप्पणी |
अक्षेपकारित्वेत्यादि । भावं पक्षीकृत्य स्वभावसाधने इतरबाधे. नाक्षेपकारित्वं प्रसाध्य तदन्यथानुपपत्या क्षणिकत्वं साधयितुमुत्सुक इत्यर्थः । दूषणावसर इति मूलस्यायमर्थः, भाषस्यैकतरखभाषा समर्थनेन परपक्षखण्डनपूर्वकस्वपक्षव्यवस्थापनरूपजल्पे को दोषो दीयते, न तावत् परपक्षखण्डने त्वन्मतस्य दूषणावसरकाले अक्षेपकारित्वरूपसाधनस्य निश्चयाभावेनैव सन्दिग्धासिद्धिनिर्वाहे जल्पस्याद्यरूपरक्षणात् । षष्ठीसमासपुरस्सरमर्थमाह । कथाया
"
इति ॥
कल्पलता ।
क्षेपकारिस्वाभाव्ये सर्वदैवाकरणमित्यक्षेपकरणस्वाभाव्यमेव भावानामङ्गीकार्यम्, तच्च स्वोत्पत्त्यव्यवहितोत्तरक्षण एव करणे सति स्यात्, तथा च समर्था समर्थ बीजक्षणयो में दसिद्धौ सिद्धं क्षणिकत्वमित्या शयेन ( भावस्याभाव्यं ) पृच्छति । स्यादेतदिति । न
(१) दूषणावसरे - पुण० पु० पा० । अयमेव भगीरथटिप्पणीकृतोः सम्मतः ।
(२) भविस्वभावं - कलि० मु० पु० पा० । (३) पूर्वरूपम् - कलि० मुँ० पु० पा० ।