________________
613 आत्मतत्वविवेकः
आत्मतत्त्वविवेका
दायात
प्युपपत्तेः, ततश्च जनननिमित्त(१) एवायं व्यत्र. हारो न च(२) व्याप्तिसिद्धिरिति ।
दीधितिः । स्ति च शिलाशकलादौ सत्यपि सहकारिसाकल्ये, तत्र कार्यानुत्पादेन स्वभावस्यैव तत्पयोजकत्वात् । अथ बीजमपि भृष्टं शिलासमानमिति चेत् (न), अभृष्टवीजत्वमेवास्तां तादृशो धर्मः, आसादयतु बा भर्जनाद्यभावोपि सहकारिभावम्। करणमेवेत्यस्य च सत्यन्तानुषङ्गात् पद्धर्मावच्छिन्नस्य सहकारिसाकल्पेऽवश्यं करणं तद्वत्वमर्थः । एवं चैतनिमित्तकसमर्थव्यवहार(विषयस्यापि सहकारिरहितस्य(३) बीजादेः करणविरहाधभिचारेण न व्याप्तिसिद्धिरित्याह । ततश्चेति। न च यावत्सत्त्वं करणं करणनियतजा.
दीधितिटिप्पणी । दानीमपि सत्त्वादिति भावः । यद्धर्मावच्छिन्नेत्यनेन द्रव्यत्वादीत्या. दिना शिलादावतिप्रसङ्गदानमप्युद्धृतमिति दर्शयति । नास्ति चेति । शिलादेः सहकारिसाकल्ये सत्यपि कार्याजनकत्वमित्यर्थः, तथा च बीजत्वमपि जनकतावच्छेदकधर्म इत्यर्थः । तादृशः अवच्छेदकः । आसादयतु वेति । तथा च भृष्टवीजे सहकारिसाकल्यविरहादेव न कार्यमिति भावः । करणमेवेति नियमस्या(४)प्यवश्यं करणमित्यर्थः, तथा चेदं प्रवृत्तिनिमित्तमकुर्वति बीजे नास्तीति न समीहितसिद्धिरित्यतोऽत्राप्यवच्छेदकधर्म प्रवेश्यार्थमाह । करणमेवेत्यस्येति । सत्यतानुषङ्गात् एवकाररहितसत्यन्तानुषङ्गात् । ततश्चेत्यादिमूले जननपदं निरुक्तावच्छेदकधर्मपरमिति सूचयन् व्याचष्टे । एवं चेति।
(१) जनननिबन्धन--पुण• पु० पा० । अयमेव गदाधरसम्मतः । (२)न-कालि० मु० पु. पा०। - (दीधितावेतचिन्हान्तर्गतो ग्रन्थः पुणतामकरसम्मतो न भवतीति सर्वत्र ज्ञेयम् । (३ ) सहकारिविरहितस्य-पुण० पु. पा० । (.) करणमेवेत्यादिमूलोकनियमस्येत्यर्थः ।
.