________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः ॥५७ चेत् कीदृशं पुनर्जननं मुख्य समर्थव्यवहारनिमित्तम् । न तावदक्षेपकरणम्, तस्यासिद्धेः । नियमस्य च सहकारिसाकल्ये सत्ये करणं करणमेवेत्येवंस्वभावत्वेना ( १ ) -
दीधितिः ।
वस्य वा प्रसङ्गात् । नियतं करणं तथा स्यादत आह । नियमस्य 1 चेति । नियमस्य करणनियमस्य, नियतकरणस्येति यावत् । सत्यैव करणमित्यन्तस्य एव कारबललभ्ये सहकारिवैकल्ये करणाभा वे तात्पर्यम्, तथा च यद्धर्मावच्छिन्नस्याकरणं सहकारिविरहमयुक्तं तद्धवश्वमित्यर्थः । अस्ति चेदं कुर्वदशायामपि बीजे, ना
दीधितिटिप्पणी |
वेति । तदानीं सहकार्यभावाधीन कार्याभावरूपप्रवृत्तिनिमित्ताभावादित्यर्थः, तदानीं कार्यस्यैव सत्त्वात । कीदृशं पुनरित्यादिना जननस्यैव तदभिधानस्य प्रकृतत्वानियमस्य तदभिधानमपर्यनुयो. ज्यविधयोत्तरमतस्तत्पदं नियमितजननपरमाह । नियतमित्यादि । सर्वत्र च करणपदं भावपरम् । तथापि न तद्देोषोद्धार इत्यत आह । नियतकरणस्येति यावदिति । नियमस्येत्यादिमूलं न समीहितसाधकम् एतावता ग्रन्थेनैवकारलभ्यस्य सहकारिसाकल्याभावाकालीनसहकारिसाकल्यकालीनजननस्य समर्थव्यवहारनिमित्तत्वमानीतम्, तथा चाकरणदशायां न समर्थव्यवहारप्रसिद्धिरायाता (२), अत एव केवलकरणपदलभ्यविशेष्यीभूतस्य करणस्य दूरीकरणेन तल्लभ्यविशेषणीभूत एव तात्पर्योपवर्णनेनार्थमाह । सत्येवेति । करणाभाव इति । करणाभाव एव तात्पर्यम्, न तु विशेष्यीभूते करणेपीत्यर्थः । यद्धर्मावच्छिन्नस्य यद्धर्माधिकरणस्य । कुर्वत्यपीत्याधुक्तदोषोद्धारं दर्शयति । अस्ति चेदमिति । अवच्छेदकधर्मस्य त
"
( १ ) स्वभावत्वे - पाठः । (२) व्यवहारप्रसिद्धावा यतो- पाठः ।
८