________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । ५९
दीधितिः। तिमत्त्वंवा तथा(१),असिद्धत्वात. अकरणदशायामपि ताशत्वाविरोधाच्च । अनियमप्रसङ्गं निरस्यति, नियमस्य चेति तु सम्म दायः । अथ भवतां पटादौ नीलं रूपमिव समर्थव्यवहारस्य शुद्धं जननं निमित्तं, लाघवात् , अत एव जनकतावच्छेदकरूप. वत्वमपि परास्तमिति चेत् , अस्तु तावदेवम् ,तथापि निमित्तसत्वासवाभ्यामेव व्यवहारतदभावोपपत्तेरविरोधात् । निमित्ततदभा. वयोः करणाकरणरूपयोरेव विरोध इति चेत् (न), तस्याग्रे निर. सनीयत्वात् । एतेन कारिपदबोध्यत्वेन करणप्रसअनं करणविरहेण च कारिपदबोध्यत्वाभावसाधनमपि व्याख्यातम् ॥
दीधितिटिप्पणी। एतत् अवच्छेदकधर्म()। द्वितीये, अकरणदशायामपीति । इदा. नी मूलानुक्तफक्किका स्वयमाशय निराकरोति । अथेति । शुद्धम् केवलम् । अत एव लाघवादेव, जनकतावच्छेदकरूपवत्वमेव स. मर्थव्यवहारनिमित्तमिति मतमप्यपास्तमित्यर्थः । तथापीति । निमित्तम् जननरूपनिमित्तम् । इतरहेतुकप्रसाविपर्ययावपि दूष. यति । एतेनेति । एतेन अविरोधेन ॥
कल्पलता। ननु कुशलस्थं यदि समर्थव्यवहारगोचरः स्यात् तदा कुर्यात, न च करोति, तस्मान्न समर्थव्यवहारगोचर इति प्रसङ्गविपर्ययौ स्यातामित्यत आह । एतेनेति । अत्रापि प्रसने मूलशैथिल्यं विपर्यये च बाध इत्याह । तादृगिति । ननु मुख्यसमर्थव्यवहारजनकत्वनिवन्धनौ प्रसङ्गविपर्ययावि(२)ति नोकदोष इति शङ्कते । नासा. (१) जातिमत्त्वं, स च तथा-पुण० पु० पा० । (२) विपर्यययोरि-पुण. पु. पा० ।