________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलतास्यटीकाद्वयविभूषितः । ५५
स्माद्यद्यदभाव एव यन्न करोति, तत् तत्सहात्रे तत् करोत्येवेति (तु) स्यात । एतच्च स्थैर्यसिद्धेरेव परं बीज सर्वस्वमिति (१) ।
दीधितिः । रण्यबुद्धिरेव क्षणिकत्वं विरुणद्धीत्यर्थः । यदित्यादावेवकारौ भिनक्रमेण (२), यदेव तदेवेति । यदभावे यस्य सहकारिसाकल्यस्याभावे, इत्यन्ये । सौ च नियतान्वयव्यतिरेकाभ्यां कार्यकरणाकरणयोः सहकारिममवधानास पवधानप्रयुक्तत्वस्य प्रदर्शनाय || दीधितिटिप्पणी |
तु सलिलाद्यभावेपीत्येवकारासङ्गत्याऽऽद्द । एवकाराविति । भिन्नक्रम इति । एतत्क्रमातिरेके न दोषावहमित्यर्थः । तदेवाह । यदेवेति । अत्र चैवकारः स्वरूपार्थक एव, अन्यथाऽसङ्गतः, दण्ड एवं करोतीत्यस्यापि वक्तुमसम्मवित्वात् । नम्बेवमेवकाराकोभयमते निष्प्रयोजनावत आह । तौ येति । आद्यैवकारणाकरणस्य सहकारिविरहप्रयुक्तत्वं दर्शितम्, द्वितीयेन तु कर णस्य सहकारिसमवधानप्रयुक्तत्वमिति भावः ॥
कल्पलता ।
,
ननु कुशूलस्थं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्यात् कुर्यात् न च करोति, तस्मान्न तथेति प्रसङ्गविपर्ययौ स्यातामित्यत आह । नापीति । कुशूलस्थस्य सहकारि वैधुर्यमुभयसिद्धम्, तथा च महकारिविधुरं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्यात् तदा कुर्यादिति विरुद्धमित्याह ।
(१) अयमेव पुणतामकरसंमतः पाठो युक्त, 'बीजम् प्रत्यभिज्ञानम्, तस्य सर्वस्वं, उपपादकत्वात् इति भगीरथेन व्याख्यानात् । बीजं सर्वस्वम् कालि० मु० पु०पा० ।
(२) मिश्रक्रमे पाठः । अयमेव टिप्पणीकृत्सम्मतः ।