________________
मात्मतत्वविवेका
कल्पलता। दयति । ते स्विति । सामग्रीघटकाः सहकारिण इत्यर्थः । तथा चाक्षेपकारित्वे कार्यजन्माप्रयोजकमिति भावः ॥
नापि तृतीयः, विरोधात् । सहकार्यभावप्रयुक्तकार्याभाववांश्च सहकारिविरहे कार्यवांश्चेति व्याहतम् । त
दीधितिः। नापीत्यादि । यद्यदा सहकारिविरहप्रयुक्तय कार्याभाववत् तत् तदा तत्कार्य करोतीत्येव(१) वा प्रसङ्गः, किं वा यदा तदति परित्यज्य । नायः, विरोधात् । द्वितीयेपि किमापाचापादकयोयोगपयेन सामानाधिकरण्यस्य ग्रहः, कालभेदेन वा । नायः, विरोधेन तथाग्रहासम्भवात । द्वितीये तु एकस्यैव धर्मिणः पूर्वापरकालावस्थायित्वलक्षणं स्थैर्यमवगाहमाना सामानाधिक
दीधितिटिप्पणी। , कार्याभावकार्ययोरेककाल एष विरोधः, अतो भिन्नकालोक्ती न कोपि दोषः स्यादतो विकल्प्य न्यूनतां परिहरति । यग्रह त्यादि । यौगपोनेति । न च यदा तदेत्यस्य परित्यागे कथं योगपचं लब्धमिति वाच्यम् । अत्र संसर्गविधयैककालत्वस्य लब्धत्वात, अत एव न पूर्वेण पौनरुक्तयम्, तत्र तस्य प्रकारत्वात, केवलं न्यूनस्थपरिहारार्थमेष तदुपादानमिति न दोषः। द्वितीये वित्यादि। कालभेदेन विवक्षणेयमर्थः स्यात्, यद्वीजमेककाले सहकार्यभाव. प्रयुक्तकार्याभावषत् तत् तदन्यकाले कार्यवत्, एवं चैकबीजस्योभपकालीनस्वावगाहनमेष क्षणिकत्वविरोधीति भावः। यथाश्रुते यद. भावत्यसङ्गतम्, न हि चक्राभाव एव दण्डो घटं न करोति, अपि (१) अयं पाठः कचिदुपलभ्यते । करोत्येव-कलि० मु० पु० पा० । ।