________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्य टीकाद्वयविभूषितः । ४० कथं तर्हि (१) करणाकरणे इति चेत् क एत्रमाह नेति । परं ( २ ) किं जातिभेदरूपं सहकारिलाभालाभरूपो वेति नियामकं प्रमाणमनुसरन्तो न पश्यामः । तथापि योऽयं सहकारिमध्यमध्यासीनोऽक्षेप
दीधितिः । ग्रहेण लिङ्गत्वायोगादिति । तज्जातीयत्वाविशेषेऽपि करणाकरनविना प्रयोजकविशेषमुपपद्येते, (३) अतः करणोपपादकतया विशेषः सिध्यन् परिशेषाज्जातिरूप एव सिद्ध्यति, तदभावादेव चाकरणमित्याशङ्कते । यदीति । जातिभेदः कुर्वद्रूपत्वम्, तद्रूपः तत्स्त्ररूपः तन्निरूप्यस्तदभावश्च । जातिभेदस्याभिधानात् तदभावोप्यर्थतो लब्ध इत्यन्ये । न पश्याम इति । साध्यसन्देहेऽपि न परिशे पावकाश इत्यभिप्रायेण । तथापीति । स्त्रोत्पश्यव्यवहितोत्तरका दीधितिटिप्पणी ।
एवा
भावः । विनेति प्रयोजकविशेषान्वयि । जातिभेदरूप इत्यनेन करणाकरणनियामक उच्यते, तत्र केवला जातिः करणनियामिका, न तु तदभावनियामिका, तथा च तदनभिधाने न्यूनता स्यात्, अत सहकारिलाभालाभेत्युभयमुक्तम्, अतोऽत्र जातिभेद ( रूप ) शब्दस्यैव जातितदभाववाचकत्वमाह । जातिभेद इत्यादि । तत्स्वरूप इति । तत्स्वरूपोप्युक्तः तन्निरूप्यः तदभावः, सोप्युक्त इत्यर्थः । नन्वेवं न पश्याम इत्यादिना स्वोक्तस्याव्यनिर्णयदर्शनान्न स्वमतसिद्धिरत आह । सन्देहेपीति । तथा चे. डशसन्देहेपि भवदुक्तपरिशेषो नावतरतीत्यभिप्रायेण सम्देहो दर्शितः, वस्तुतः पुनः सन्देह एव नास्तीति भावः । स्वोत्पत्तीत्या दि । न चैवमेतावतापि न क्षणिकत्वसिद्धिः स्यात्, स्वद्वितीयक्षण
यावत्, उत्पत्तिमयोजकतायाः करोत्यर्थत्वात् वैशिष्टयस्याख्यातार्थत्वात् तत्रोत्पत्तिप्रयोजकत्वं कारणस्वरूपं न सम्भवति, तथात्वेऽन्यदापि तत्प्रसङ्गात्, कि तूत्पत्तिकाल एव तस्याभावादित्यर्थः । (१) तर्हि - पु० पु० नास्ति । ( २ ) परन्तु पुण० पु० पा० । (३) उपपद्येत - कलि० मु० पु०पा०|