________________
टिप्पणीसमलङ्कतदीधिति कल्पलताख्यटीकाद्वयविभूषितः। ४५
न तावदाद्यः, अकुर्वतोपि बीजजातीयस्य प्रत्यक्षसिद्धत्वात्, तवापि तत्राविप्रतिपत्तेः ।
दीधितिः । अकुर्वतोपीत्यादि । तथा च बीजत्वस्य करणव्यभिचारो. ऽकरणस्य बीजवाभावव्यभिचारश्चोभयसिद्ध इति न प्रसङ्गविपर्ययप्रवृत्तिरिति भावः।
दीधितिटिप्पणी । तथा चति । क्रमेण तयोध्यभिचारप्रदर्शनम् ॥
कल्पलता।
-
अकुर्वतोपीति । यदि कुशलस्थं बीज स्यात् त. दा-कुर्यादिति प्रसङ्गः, न च करोति तस्मान्न बीजमि. ति विपर्ययश्च व्यभिचारवाधाभ्यामनुपपन्न इत्यर्थः ।।
न द्वितीयः(१), तस्य कुर्वतोपि(२) मयानभ्युपगमेन दृष्टान्तस्य साधनविकलत्वात् , को हि
दीधितिः। तस्य कुर्वद्रूपत्वस्य, दृष्टान्तस्य अङ्करकारिणो कीजस्य, साधनम् प्रसङ्गसाधनं कुर्वदूपत्वप, सद्विकलत्वम् तदमसिद्धया सद. त्वग्रहाभावः,तथा च प्रसङ्गे हेतोरमसिद्धिः,अत एव तदभावरूपस्य
दीधितिटिप्पणी। विपर्ययसाधने वैकल्याभावादाह । साधनमिति । तद्वत्वग्रहाभाष इति । यद्यपि तत्त्वग्रहस्याप्यप्रसिया तदभावोपि धक्तुं न शक्यत एव, तथापि प्रहे प्रसिद्धयावत्पदार्थान्यतरविषयताकत्वे तात्पर्यम् । नन्वेवं मूलेन प्रसा एव दोषदाने विपर्यये न कोपि दो स्यादत आह । अत एवेति । यत एव प्रसङ्गहेतोरप्रसिद्धिः, अत एवैत - (१) नापि द्वितीयः पाठः। (२) कुर्वन्यपि-पुण० पु० पा० । अयमेव समीचीमः ।