________________
आत्मतत्वविवेकः
दीधितिः। कारणस्याप्युत्तरकाले कार्यकारिस्वाभाव: सहकारिविरहमयुक्त इति भावः। यथाश्रुतं स्वस्माकं निमित्तासमवायिनोः परेषामुपादानस्याप्यसिद्धमिति द्रष्टव्यम् ।
दीधितिटिप्पणी। प्रयुक्तः स्यादत आह। कार्यकारित्वाभाव इति । ननु चरमकारणे कार्य. कारित्याभावरूपविशेषस्यासवान सहकारिविरहेत्यादिरूपवत्ता स्यादत आह । चरमति। तस्यापि कार्यद्वितीयक्षणे कार्यकारित्वाभाव: सहकारिविरहप्रयुक्त एवेति भावः । कारित्वपर्यन्तव्याख्याप्रयोजन. माह । यथाश्रुतं त्विति । निमित्तासमवायिनोरित्यसिमित्यनेनान्व. यि । परेषामिति । न च तन्मने यथाश्रुतमप्यसिखम्, न हि तेनो. पादाने सहकारिविरहप्रयुक्तकार्यकारित्याभावोप्यङ्गीक्रियते, क्षणिकस्वात् , तथा च यथाश्रुतेपि तत्रासिद्धौ को दोष इति वाच्यम् । भावा. नषगमात्। तथाहि अयं यथाश्रुतहेतुः कस्य मते कृतः, यद्यस्माकं मते, तदा निमित्तासमानिनोरसिद्धिः, अथ परमते, तदा तेषामुपादाने. प्यसिद्धमिति भावः, तथा चोभयथापि यथाश्रुतं न समीचीनम्, ध्याग्यातं तु नैयायिकमत एव समीचीनमिति भावः॥
कल्पलता। धीजे सत्यङ्करं तबिना नेस्यन्वयव्यतिरेको । तद. वान्तरजातिभेदः कुर्वद्रूप(वरवं पराभ्युपगतामत्यर्थः । उभयसाधारणी योग्यतामाह । सहकारीति । सहकारिवैकल्यप्रयुक्तो व्याप्यो यः कार्यानावस्तत्वामिल स्यर्थः । शिलाशकले कार्याभावो न सहकारिवैकल्य. प्रयुक्तः, किं तु शिला(१)स्वप्रयुक्त एक। पीजे सहकारिसाकल्प कार्याभावो न भवत्येव ।।
( १ ) शिलाशकल-पुण० पु० पा० ।