________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलता व्यटीकाद्वयविभूषितः । ४१
*कारिश्वप्रकारकज्ञानात् समर्थत्वप्रकारकं ज्ञानमन्यदिति तद्भेदादपि न भेद इत्यत आह (१) । नापीति । स्वरूपकृतस्येति । ज्ञानव्यक्तिभेदमात्रकृतस्येत्यर्थः । अन्योन्याश्रयेति । विषयभेदाघीनो बिकल्प भेदो विकल्पभेदानिश्च विषयभेद इत्यन्योन्याश्रय इत्यर्थः (२) ॥ *
योग्यतापक्षं दूषयति । नापीति । सा हीति । प्रति स्वं नियता प्रातिस्विकी, यथा बीजेषु बीजत्वं तन्तुषु तन्तुत्वम्, तत्तत्कारणतावच्छेदिका जातय इत्यर्थः ।
न तावदाद्यः पक्षः (३), सिद्धसाधनात, परानभ्युपग
कल्पलता ।
दीधितिः ।
सिद्धसाधनादिति । सिद्धसाधन हेत्वासिद्धी विपर्ययप्रसङ्गयोः । परः स्थिरवादी । विपर्यये सिद्धसाधनं विवृणोति, दीधितिटिप्पणी |
(४) कुशलस्थबीजे नैयायिकैः सहकारिसाकल्यानभ्युपगमात्वसिद्धिरिति प्रसङ्गे लगतीत्यभिप्रायेण व्युत्क्रमाभिधानमाह । सिद्धसा प्रमादवशात्पूर्वमनिवेशितोऽयमंशः ४० पृष्ठीय १६ संयोज्य पठनीयः ।
*
( १ ) इत्याह- पुण० पु० पा० ।
( २ ) अतिप्रसङ्गादिति । प्रयोजकविरहेपि यदि सामर्थ्यकारित्वयोर्भेदस्तदा त्वभिन्नपि स्यादित्यर्थः । - इत्यधिकं पुण० पु० । (३) न तावदाद्यः, पुरा० पु० पा० । (४) श्रीरामतर्कालङ्कारभट्टाचार्यविरचितस्यात्मतत्त्वविवेकदीधितिव्याख्यान स्यैकमेवादर्शपुस्तक मत्यशुद्धमुपलब्धमेतद्मन्यमुद्रणारम्भसमयेऽस्माभिर्वीराणसी स्थराज की यसरस्वती भवनादिति तदवलम्ब्यैवास्माभिरतिश्रमेण मुद्रणकार्यमेतावत्पर्यन्तं कृतम्, परमिदानीं भगवदिच्छयाऽन्यदप्येकं पुस्तकं खण्डितमपि प्रायः शुद्धमधिगतमस्त्यत्रत्यानामेव स्वर्गीयपण्डितमवर श्री मागेश्वर पन्तधर्माधिकारिणां तनुजन्मनः पण्डितश्री लक्ष्मीधरपन्तधर्माधिकारिण इति महान् हर्षविषयः । एतत्पुस्तकलाभेन मुद्रणकौर्यमतिसुलभमेव सञ्जातमिति सुधियो विदाङ्कुर्वन्तु । इतः परं धर्माधिकारिपुस्तकं २ पुस्तकमिति व्यवहरिष्यत इति ध्येयम् ।